अध्यायः १ सूतशौनकसंवादे वैष्णवादिधर्मजिज्ञासोरंबरीषस्य नारदं प्रति प्रश्नः, नारदकृतवैशाखमासप्रशंसा, वैशाखस्नानमहिमा च ॥
अध्यायः २ वैशाखप्रशंसा, ततो वैशाखमासव्रताकरणे दोषप्रसङ्गः, व्रतप्रशंसा, वैशाखे जलप्रपादानम्, व्यजनच्छत्रपादत्राणदानप्रशंसा, अन्नदानप्रशंसा च ॥
अध्यायः ३ शय्याकम्बलवस्त्रकर्पूरकुसुमकुंकुमचंदनगोरोचनताम्बूलफलादिदानम् ऽ विश्राममण्डपकरणम् कूपतडागोद्यानप्रशंसा, पुत्राभावे पुत्रवत्सप्तपदार्थवर्णनम्, ताम्बूल तक्र दधि तंदुल घृत गुडेक्षुदण्डेक्ष्वादि रसपानक दान माहात्म्यम् ॥
अध्यायः ४ वैशाखव्रतिनां वर्ज्यपदार्थाः, गृहस्नाने दुष्टफूलम्, व्रताकरणे दोषः, नदीसप्तगंगादेवखातवापीषु स्नानं दानं च, मधुसूदनप्राथनार्घ्यदानपूजनादिकम् ॥
अध्यायः ५ वैशाखमासस्य हेतुपूर्वकं श्रेष्ठत्वकथनम् ॥
अध्यायः ६ वैशाखमासे जलदानमाहात्म्यकथनम्, तद्विषये हेमाङ्गदराजकथावैशाखमासे जलादानात्तस्य तिर्यग्योनिप्राप्तिः, मैथिलराजगृहे गोधिकात्वं प्राप्तस्य तस्य श्रुतदेवसकाशान्मुक्तिः ॥
अध्यायः ७ तदद्भुतं दृष्ट्वा विस्मितेन मैथिलेन पृष्टेन श्रुतदेवेन वैशाखमासे जलदानादिमाहात्म्यकथनम्, तद्विषये स्वपितुर्वृत्तान्तकथनम् ॥
अध्यायः ८ मैथिलपृष्टेन श्रुतदेवेनेश्वरपार्वतीसंवादद्वारा वैशाखमाहात्म्यविषय इक्ष्वाकुतनयस्य काकुत्स्थस्येतिहासकथनम् ॥
अध्यायः ९ मैथिलपृष्टेन श्रुतकीर्तिविप्रेण कुमारजन्मकथनम्, वैशाखधर्मप्रशंसा च ॥
अध्यायः १० अशून्यव्रतकथनम्, वैशाखमासे छत्रदानादिप्रशंसा ॥
अध्यायः ११ मैथिलनृपेण वैशाखधर्मप्रसिद्धिकरणम्, तेन सर्वजनानां सद्गतिप्राप्त्या नरकाणां शून्यतया खिन्नस्य यमस्य ब्रह्मसमीपे गमनम् ॥
अध्यायः १२ ब्रह्मणे यमेन स्वदुःखनिवेदनम् ॥
अध्यायः १३ वैशाखमाहात्म्यकथनपूर्वकं ब्रह्मणा यमस्य समाधानकरणम्, तथापि खेदयुक्तेन यमेन साकं ब्रह्मणो विष्णुसमीपे गमनम्, विष्णुना यमाय वरप्रदानम्, तत्र वैशाखधर्माणां प्रशंसा ॥
अध्यायः १४ वैशाखस्नानप्रशंसा,वैशाखमाहात्म्यकथाश्रवणप्रशंसा,तत्र कर्मनिष्ठतपोनिष्ठद्विजकथा ॥
अध्यायः १५ पञ्चालदेशाधिपस्य पुरुयशसो नृपस्य वैशाखधर्माचरणात्स्वराज्यप्राप्तिः ॥
अध्यायः १६ अथ पुरुयशसाऽक्षय्यतृतीयायां विष्णोः स्तुतिकरणम्, विष्णुकृपया च तस्य सायुज्यमुक्तिप्राप्तिः ॥
अध्यायः १७ वैशाखधर्मकथनोपक्रम उपानद्दानप्रसङ्गेन शङ्खनामकद्विजकथानकम्, तत्र शङ्खनामकद्विजेन व्याधाय वैशाखधर्मकथनप्रसङ्गेन दन्तिलकोहलमुक्तिप्राप्तिवृत्तांतकथनम् ॥
अध्यायः १८ व्याधस्य पूर्वजन्मवृत्तान्तकथनम ॥
अध्यायः १९ ब्रह्मशव्दप्रतिपादनपूर्वकं सर्वदेवापेक्षयाः प्राणस्य मुख्यत्वकथनम् ,प्राणदेवस्य महत्त्वलोपे कण्वशापप्रतिपादनम्, त्वं गुरुद्रोही भवेति कण्वं प्रति प्राणवायुना शापप्रदानम् ॥
अध्यायः २० सत्त्वादिभिर्गुणैर्जीवानां तदनुरूपजन्मकर्मादिफलप्राप्तिकथनम्, प्रलयवर्णनम् व्यूहावतारकर्मनिरूपणम्, धर्मभेदनिरूपणपूर्वकं भगवद्भक्तलक्षणनिरूपणम्, वैशाखमासधर्मनिरूपणम् ॥
अध्यायः २१ वैशाखमासमाहात्म्यश्रवणेन सर्पस्य मुक्तिः, तस्यैव पूर्वजन्मवृत्तान्तकथनम्, शंखव्याधसंवादे व्याधस्य जन्मान्तरे वाल्मीकर्षित्वप्राप्तिकथनम् ॥
अध्यायः २२ वैशाखस्थितिथिमाहात्म्यवर्णनम्, कलिधर्मनिरूपणम् ॥
अध्यायः २३ अक्षय्यतृतीयामाहात्म्यम् ॥
अध्यायः २४ वैशाखशुक्लद्वादशीमाहात्म्यम्, काश्मीरदेशस्थदेवद्विजकथा ॥
अध्यायः २५ वैशाखशुक्लत्रयोदशी चतुर्दशी-पूर्णिंमा तिथीनां माहात्म्यवर्णनम्, वैशाखमाहात्म्यश्रवणफलवर्णनम् ॥