हरिरेव हरो हर एव हरिर्न हि भेदलवोऽपि तयोः प्रथितः ।
इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥१॥
भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा ।
उमापतिं वाथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥२॥
सच्चित्स्वरुपं करुणासुकूपं गीर्वाणभूपं वरधर्मयूपम् ।
संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥३॥
हरिरेव बभूव हरः परमो हर एव बभूव हरिः सरमः ।
हरिता हरता च तथा मिलिता रचयत्यखिलं खलुविश्वमिदम् ॥४॥
गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराच्युत जनार्दन वासुदेव
त्याज्या भटा य इति सन्ततमामनन्ति ॥५॥