रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङकुमपङकयुतम् ।
मुनिवृन्दगणेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥२०॥
यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः
कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।
चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां
सालङकारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥२१॥
सेवापूजानमनविधयः सन्तु दूरे नितान्तं
कादाचित्की स्मृतिरपि पादम्भोजयुग्मस्य तेऽम्ब ।
मूकं रङकं कलयति सुराचार्यमिन्द्रं च वाचा
लक्ष्म्यालोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥२२॥
हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय ।
विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥२३॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्वयापिनीं
वीणापुस्तकधारिणीमभयदां जाडयान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥२४॥