तीरे घनीभूततमालजाला प्राणाधिनाथीकृतनन्दबाला ।
कृपीटयोनेरिव धूममाला बाला जयेत्सन्ततमुष्णरश्मेः ॥१२॥
नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
मुरारिपदपङकजस्फुरदमन्दरेणूत्कटाम् ।
तटस्थनवकाननप्रकटमोदपुष्पाम्बुना
सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥१३॥
नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयःपानतः ।
यमोऽपि भगिनीसुतान्कथम हन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥१४॥
मातर्देवि कलिन्दभूधरसुते नीलाम्बुजश्यामल-
स्निग्धोद्यद्विमलोर्मिताण्डवधरे तुभ्यं नमस्कुर्महे ।
त्वं तुर्याप्यसि यत्प्रिया मुररिपोस्तद्बाल्यतारुण्ययो-
र्लीलानामवधायिकान्यमहिषीवृन्देषु वन्द्याधिकम् ॥१५॥