कल्पद्रुमः कल्पितमेव सूते
सा कामधुक्कामितमेव दोग्धि ।
चिन्तामणिश्चिन्तितमेव दत्ते
सतां हि सङगः सकलं प्रसूते ॥१॥
तृष्णां छिन्ते शमयति मदं ज्ञानमाविष्करोति
नीतिं सूते हरति विपदं सम्पदं संचिनोति ।
पुंसां लोकद्वितयशुभदा सङगतिस्सज्जनानां
किं वा कुर्यान्न फलममलं दुःखनिर्णाशदक्षा ॥२॥
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङिगसङगस्य मर्त्यानां किमुताशिषः ॥३॥
न रोधयति मां योगो न सांख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥४॥
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्सङगः सर्वसङगापहो हि माम् ॥५॥
न तथा ह्यघवान् राजन् पूयेत तपआदिभिः ।
यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥६॥
रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद् गृहाद्वा ।
नच्छन्दसा नैव जलाग्निसूर्यै-
र्विना महत्पादरजोऽभिषेकम् ॥७॥
जाडयं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङगतिः कथय किं न करोति पुंसाम् ॥८॥
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥९॥
तत्त्वं चिन्तय सततं चित्ते
परिहर चिन्तां नश्वरवित्ते ।
क्षणमिह सज्जनसङगतिरेका
भवति भवार्णवतरणे नौका ॥१०॥
परिचरितव्याः सन्तो यद्यपि
कथयन्ति नो सदुपदेशम् ।
यास्तेषां स्वैरकथास्ता
एव भवन्ति शास्त्राणि ॥११॥
भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां
मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा ।
सङंग यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधी-
र्मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥१२॥
भाग्योदयेन बहुजन्मसमार्जितेन
सत्सङगमेव लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमदान्धकार-
नाशं विधाय हि तदोदयते विवेकः ॥१३॥