दान्तस्य किमरण्येन तथादान्तस्य भारत ।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥४०॥
गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता
स्ववेश्मन्यारक्षा क्रियत इति मार्गोऽयमुचितः ।
नरान्गेहाद्गेहात् प्रतिदिवसमाकृष्य नयतः
कृतान्तात् किं शङका न हि भवति रे जागृत जनाः ॥४१॥
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥४२॥
हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ
नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ।
अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङंग शिरो
रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४३॥
सेवध्वं विबुधास्तमन्धकरिपुं मा क्लिश्यतान्यश्रुते
यस्मादत्र परत्र च त्रिजगति त्राता स एकः शिवः ।
आयाते नियतेर्वशात् सुविषमे कालात् करालाद्भये
कुत्र व्याकरणं क्व तर्ककलहः काव्यश्रमः क्वापि वा ॥४४॥
भेको धावति तं च धावति फणी सर्पं शिखी धावति
व्याघ्रो धावति केकिनं विधिवशाद् व्याधोऽपि तं धावति ।
स्वस्वाहारविहारसाधनविधौ सर्वे जना व्याकुलाः
कालस्तिष्ठति पृष्ठतः कचधरः केनापि नो दृश्यते ॥४५॥
स्वःसिन्धुतीरेऽघविघातवीरे
वहत्समीरे करलभ्यनीरे ।
वसन्कुटीरे परिधाय चीरे
करोभ्यधीरे न रुचिं शरीरे ॥४६॥
यस्या बीजमहङ्कृतिर्गुरुतरं मूलं ममेतिग्रहो
भोगस्य स्मृतिरङकुरः सुतसुताज्ञात्यादयः पल्लवाः ।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः
सा मे ब्रह्मविभावनापरशुना तृष्णालता लूयताम् ॥४७॥
निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्त्राधिपो
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति ।
चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वाञ्छति
ब्रह्मा शैवपदं शिवो हरिपदं ह्याशावधिं को गतः ॥४८॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङकजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥४९॥
भोगा न भुक्ता वयमेव भुक्ता-
स्तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याता-
स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥५०॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
मौने दैन्यभयं बले रिपुभयं रुपे जराया भयम् ।
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयावहं भुवि नृणां वैराग्यमेवाभयम् ॥५१॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरजकपालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥५२॥
गङगातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङकाः
सम्प्राप्स्यन्ते जरठहरिणाः श्रृङगकण्डूविनोदम् ॥५३॥
आशा नाम नदी मनोरथजला तृष्नातरङगाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्त्तसुदुस्तरातिगहना प्रोत्तुङगचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥५४॥
कृच्छ्रेणामेंध्यमध्ये नियमिततनुभिः स्थीयते गर्भमध्ये
कान्ताविश्लेषदुःखव्यतिकरविषये यौवने विप्रयोगः ।
नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥५५॥
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्ता च दन्तावलि-
र्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रॄषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥५६॥
उत्खातं निधिशङकया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥५७॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
दृष्टवा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥५८॥
अजानन्दाहात्म्यं पतति शलभो दीपदहने
स मीनोऽप्यज्ञानाद्वडिशयुतमश्नाति पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिला-
न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥५९॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनीयौवनश्री-
रर्थाः सङकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥६०॥
जीर्णा एव मनोरथाः स्वहृदये यातं जरा यौवनं
हन्ताङेगषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
ह्याज्ञातं स्मरशासनाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥६१॥
नायं ते समयो रहस्यमधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितु-
र्निर्दौवारिकनिर्दयोक्त्यपरुषं निस्सीमशर्मप्रदम् ॥६२॥
रे कन्दर्प करं कदर्थयसि किं कोदण्डटङकारितै
रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि ।
बाले स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्त्तते ॥६३॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥६४॥
मातुलो यस्य गोविन्दः पिता यस्य धनंजयः ।
सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥६५॥
देहेऽस्थिमांसरुधिरेऽभिमतिं त्यजस्व
जायासुतादिषु सदा ममतां विमुञ्च ।
पश्यानिशं जगदिदं क्षणभङगनिष्ठं
रौग्यरागरसिको व भक्तिनिष्ठः ॥६६॥
आनन्दमूलगुणपल्लवतत्त्वशाखा-
वेदान्तमोक्षफलपुष्परसादिकीर्णम् ।
चेतोविहङग हरितुङगतरुं विहाय
संसारशुष्कविटपे वद किं करोषि ॥६७॥
तरन्ति मातङगघटातरङंग
रणाम्बुधिं ये मयि ते न शूराः ।
शूरास्त एवेह मनस्तरङंग
देहेन्द्रियाम्भोधिमिमं तरन्ति ॥६८॥
इमान्यमूनीति विभावितानि
कार्याण्यपर्यन्तमनोरमाणि ।
जनस्य जायाजनरज्जनेन
जवाज्जरान्तं जरयन्ति चेतः ॥६९॥
विद्राविते शत्रुजने समाप्ते
समागतायामभितश्च लक्ष्म्याम् ।
सेव्यन्त एतानि सुखानि याव-
त्तावत्समायाति कुतोऽपि मृत्युः ॥७०॥
पुनः पुनर्दैववशादुपेत्य
स्वदेहभारेण कृतोपकारः ।
विलूयते यत्र तरुः कुठारै-
राश्वासने तत्र हि कः प्रसङगः ॥७१॥
वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा
विशीर्णा दन्तालिः श्रवनविकलं श्रोत्रयुगलम् ।
शिरः शुक्लं चक्षुस्तिमिरपटलैरावृतमहो
मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥७२॥
क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः
क्वचिद्वीणावादः क्वचिदपि च हा हेति रुदितम् ।
क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनु-
र्न जाने संसारः किममृतमयः किं विषमयः ॥७३॥