परस्त्री मातेव क्वचिदपि न लोभः परधने
न मर्यादाभङगः क्वचिदपि न नीचेष्वभिरतिः ।
रिपौ शौर्यं धैर्यं विपदि विनयः सम्पदि सदा
इदं वच्मो भ्रातर्भरत ! नियतं ज्ञास्यसि मुदे ॥१४॥
लब्धा विद्या राजमान्या ततः किं
प्राप्ता सम्पद्वैभवाढया ततः किम् ।
भुक्ता नारी सुन्दराङगी ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥१५॥
यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ॥१६॥
भज विश्रान्तिं त्यज रे भ्रान्तिं निश्चिनु शैवं निजरुपम् ।
हेयादेयातीतं सच्चित्सुखरुपस्त्वं भव शिष्टः ॥१७॥
कदाहं भो स्वामिन्नियतमनसा त्वां हृदि भज-
न्नभद्रे संसारे ह्यनवरतदुःखेऽतिविरतः ।
लभेयं तां शान्तिं परममुनिभिर्या ह्यधिगता
दयां कृत्वा मे त्वं वितर परशान्तिं भवहर ॥१८॥
कदाहं हे स्वामिञ्जनिमृतिमयं दुःखनिविडं
भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि ।
रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका
रमन्ते यस्मिंस्ते कृतसकलकृत्या यतिवराः ॥१९॥
कदा मे हृत्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाम्भासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरुपो रविरिव रमासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥२०॥
न रम्यं नारम्यं प्रकृतिगुणतो वस्तु किमपि
प्रियत्वं यत्र स्यादितरदपि तद्ग्राहकवशात् ।
रथाङगाह्वानानां भवति विधुरङगारशकटी-
पटीराम्भःकुम्भः स भवति चकोरीनयनयोः ॥२१॥
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निःशङकमङेकशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते ॥२२॥
जिह्वे लोचन नासिके श्रवण हे त्वक् चापि नो वार्यसे
सर्वेभ्यस्तु नमस्कृताञ्जलिरहं सप्रश्रयं प्रार्थये ।
युष्माकं यदि सम्मतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजां निसर्गदहनज्वालाकराले गृहे ॥२३॥
मातर्माये भगिनि कुमते हे पितर्मोहजाल
व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः ।
सद्यो लक्ष्मीरमणचरणभ्रष्टगङगाप्रवाह-
व्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि ॥२४॥
धर्मं भजस्व सततं त्यज लोकधर्मान्
सेवस्व साधुपुरुषाञ्जहि कामतृष्णाम् ।
अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा
सेवाकथारसमहो नितरां पिब त्वम् ॥२५॥
नन्दन्ति मन्दाः श्रियमप्यनित्यां
परं विषीदन्ति विपद्गृहीताः ।
विवेकदृष्टया चरतां नराणां
श्रियो न किञ्चिद् विपदो न किञ्चित् ॥२६॥
अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः ।
अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥२७॥
इतो न किञ्चित्परतो न किञ्चिद्
यतो यतो यामि ततो न किञ्चित् ।
विचार्य पश्यामि जगन्न किञ्चित्
स्वात्मावबोधादधिकं न किञ्चित् ॥२८॥
पुराणान्ते श्मशानान्ते मैथुनान्ते च या मतिः ।
सा मतिः सर्वदा चेत् स्यात् को न मुच्येत बन्धनात् ॥२९॥
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥३०॥
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥३१॥
न च विद्यासमो बन्धुर्न मुक्तेः परमा गतिः ।
न वैराग्यात् परं भाग्यं नास्ति त्यागसमं सुखम् ॥३२॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३३॥
अहन्यहनि भूतानि गच्छन्ति यममन्दिरम् ।
शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमतः परम् ॥३४॥
अस्मिन्महामोहमये कटाहे
सूर्याग्निना रात्रिदिनेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन
भूतानि कालः पचतीति वार्त्ता ॥३५॥
मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यजेः ।
क्षमार्जवदयाशौचं सत्यं पीयूषवत् पिबेः ॥३६॥
लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत नु पतेदनुमृत्यु याव-
न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥३७॥
स्त्रीणां स्त्रीसङिगनां सङंगत्यक्त्वा दूरत आत्मवान् ।
क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥३८॥
न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङगतः ।
योषित्सङगाद्यथा पुंसो यथा तत्सङिगसङगतः ॥३९॥