विघ्नेशं वन्दनं कुर्वे धर्मसिन्धुसुबोधने
कृष्णस्य मे प्रयत्नस्य सिद्धिः सुष्ठु भवत्विति ॥१॥
श्रीविठ्ठलं सुकरुणार्णवमाशुतोषं । दीनेष्टपोषमघसंहतिसिंधुशोषम् ॥
श्रीरुक्मिणीमतिमुषं पुरुषं परं तं । वन्दे दुरन्तचरितं ह्रदि संचरन्तम् ॥१॥
वन्दे प्रतिघ्नन्तमघानि शंकरं । धत्तां स मे मूर्ध्नि दिवानिशं करम् ॥
शिवां च विघ्नेशमथो पितामहं । सरस्वतीमाशु भजेऽपि तामहम् ॥२॥
श्रीलक्ष्मी गरुडं सहस्त्रशिरसं प्रद्युम्नमीशं कपिम् ।
श्रीसूर्य विधुभौमविद्गुरुकविच्छायासुतान्षण्मुखम् ।
इन्द्राद्यान्विबुधान्गुरूंश्च जननी तातं त्वनन्ताभिधम् ।
नत्वार्यान्वितनोमि माधवमुखान्धर्माब्धिसारं मितम् ॥३॥
दृष्ट्वा पूर्वनिबन्धान्निर्णयसिन्धुक्रमेण सिद्धार्थान् ।
प्रायेण मूलवचनान्युज्झित्य लिखामि बालबोधाय ॥४॥