तृतीयारम्भाव्रतेपूर्वविद्धाग्राह्या रम्भाव्यतिरिक्तव्रतेषु
त्रिमुहूर्तद्वितीयाविद्धापूर्वात्यक्त्वापरदिनेत्रिमुहुर्तव्यापिनीग्राह्यापूर्वदिनेत्रिमुहूर्तन्यूनद्वितीयावेधेपरदिनेत्रिमुहूर्तव्याप्त्यभावेपूर्वाग्राह्या
पूर्वदिनेत्रिमुहूर्तद्वितीयावेधेपरदिनेत्रिमुहूर्तन्यूनापिग्राह्या गौरीव्रतेतु कलाकाष्ठादिपरिमितस्वल्पद्वितीयायुक्तापिनिषिद्धा
परदिनेकलाकाष्ठादिपरिमितास्वल्पापितृतीयापरिग्राह्या यदातुदिनक्षयवशात्परदिनेस्वल्पापिचतुर्थीयुतातृतीयानलभ्यते
पूर्वदिनेचद्वितीयाविद्धतदार्द्वितीयाविद्धैवग्राह्या यदाच दिनवृद्धिवशात्पूर्वदिमेषष्ठिघटिकातृतीयापरदिनेचघटिकादिशेषवती
तदापूर्वाशुद्धाषष्ठिघटिकामपित्यक्त्वाचतुर्थीयुतैवगौरीव्रतेग्राह्या ।
इतितृतीयानिर्णयोनवमः