श्रीगणेशायनमः । श्रीपाण्डुरङ्गायनमः । श्रीपाण्डुरङ्गं विबुधान्तरङ्गं नौमीन्दिरां माधवमन्दिरां च ।
सतामनन्तं हितमामनन्तं गुरुं गरिष्ठं जननी वरिष्ठाम् १ काशीनाथाभिधेनात्रानन्तोपाध्यायसूनुना ।
सामान्यं निर्णयं प्रोच्य विशेषेण विनिर्णयः २ संगृह्यते धर्मसिन्धुसाराख्ये कालगोचरे ।
ग्रन्थे प्रस्फुटबोधाय पुनरुक्तिर्न दूषणम् ३