संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथाग्रयणकालः

धर्मसिंधु - अथाग्रयणकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आस्विनकार्तिकयोः पौर्णमास्याममावास्यायांवाशुक्लपक्ष गतकृत्तिकादिविशाखान्तनक्षत्रेशुक्लपक्षस्थरेवत्यांवाव्रीह्याग्रयणम्

एवंश्रावणभाद्रपदयोरुक्तेषुपर्वसुनक्षत्रेषु श्यामाकाग्रयणम् चैत्रवैशाखयोः पर्वादिषुयवाग्रयणम् तत्र

पौर्णमासीपर्वणिसंगवात्पूर्वसंधौपूर्वदिनेआग्रयणंकृत्वाप्रकृत्यन्दाधानम् मध्याह्नापरत्रसंधौसंधिदिनेआग्रयणंकृत्वाप्रकृत्यन्वाधानम्

मध्याह्नेसंगवादूर्ध्वमध्याह्नात्पूर्वत्रवासंधौसंदिदिनेआग्रयणेष्टिकृत्वाप्रकृतीष्टिःसद्यःपरदिनेवाकार्या

दर्शेतुपूर्वाह्णेऽपराह्णेवा संधौयथासंधौयथाकालंदर्शोष्टिकृत्वाप्रतिपन्मध्येआग्रयणेष्टिःकार्या

एवंनक्षत्राग्रयणपक्षेपिपौर्णमासेष्टेःप्राक्‌दर्शेष्टेःपरंयथाभवेत्तथाआग्रयणंकार्यम् तथाचदीपिका

दर्शेष्ट्याःपरमुक्तमाग्रयणकंप्राक्पौर्णमासच्चतदिति यद्यपिअथोपूर्वाह्णपर्वक्षय इत्युपक्रमात्पूर्वाह्णसंधावेवायंक्रम

इतिहेमाद्रिसिद्धान्तानुसारिदीपिकामतंतहापिसर्वावस्थेसंधावित्थमेवक्रमइतिकौस्तुभसिद्धान्तानुसार्यत्रत्यसिद्धान्तोज्ञेयः

अत्रपक्षेअथोपद्म्शार्थेयोज्यम् पूर्वाह्णे पर्वक्षयेचेत्यर्थः इत्थंचकृष्णपक्षेनभवतीतिसिद्धः

एतद्दीपिकाकारमतममावास्यापर्वण्याग्रयणविधानस्याखण्डदर्शेवैयर्थ्यापत्त्यनियुक्तामतिगृह्याग्निसागरोक्तिनसमीचीनाप्रतिभाति

विकृतन्तराणांखण्डपर्वणिप्रकृत्युत्तरंप्रतिपद्यनुष्ठानेपिपर्वानुग्रहसंमतिवदखणदर्शेपि प्रतिपदि क्रियमाणाग्रयणस्य

दर्शपर्वानुग्रहसंमतिसंभवान्‍ खण्डदर्शेदर्शपर्वविधानसार्थक्यंसंभवच्चेतिदिक्‍

श्रावणादौश्यामाकाग्रयणंनकृतंचेच्छरदिव्रीह्याग्रयणेनसमानतन्त्रंकार्यम् तत्रस्मार्तेव्रीह्याग्रयण्म

श्यामकाग्रयणंचतन्त्रेण करिष्य इतिसंकल्प्येन्द्राग्निविश्वेदेवार्थमष्टौव्रीहिमुष्टीन्निरूप्यशूर्पान्तरेश्यामाकान्सोमायनाम्नानिरूप्यपुनः

प्रथमशूर्पेद्यावापृथिव्यर्थव्रीहिनिर्वापः एवंहोमेपिविश्वेदेवहोमात्परंसौम्यश्यामाकचरुंहुत्वाद्यावापृथिवी होमः

आश्विनपौर्णमास्यामपराह्णदिसंधावाग्रयणेक्रियमाणेआश्वयुजीकर्मणापिसमानतन्त्रताकार्या

तथाचजीर्णव्रीहिचरुर्नवव्रीहिचरुर्नवश्यामाकचरुश्चेतिस्थालीत्रयेचरुत्रयंपूर्वाह्णादिसंधौतुसंधिदिनेप्रकृतियागोत्तरमाश्वयुजीपूर्वदिने

संधिदिनेवाप्रकृतियागात्पूर्वमाग्रयण इतिकालैक्याभावान्नैकतन्त्रता श्यामाकचर्वसंभवेश्यामाकतृणैःप्रस्तरंकृत्वास्रुवादुत्तरतआस्तीर्य

तत्रस्रुचोनिधानंतावतैवश्यामाकाग्रयणसिद्धिरितिवृत्तिकृन्नारायणः यवाग्रयणंतुकृताकृतं व्रीह्याग्रयणस्य वसन्तपर्यन्तं गौणकालः

यवाग्रयनस्थवर्शर्तुपर्यन्तम् अनापदिगौणकालेकुर्वन्कालाति पत्तिप्रायश्चित्तपुर्वमाग्रयणंकुर्यात् अनापदिगौनकालेकुर्वन्प्रायश्चित्तंनकुर्यात्

गौणकालेऽप्यतिक्रान्तेवैश्वानरेष्टिंप्रायश्चित्तंकृत्वातिक्रान्ताग्रयणं कुर्यात् स्मार्ते

वैश्वानरदेवताकःस्थालीपाकोग्राह्यःयएवाहिताग्नेःपुरोडाशास्तएवौपासनाग्निमतश्चरवइत्युक्तेः

प्रथमाग्रयणस्यशरदत्ययेविभ्रष्टेष्टिंतद्देवताकस्थालीपाकंवाकृत्वाऽऽगामिमुख्यकालेप्रथमाग्रयणंकार्यम्

गौणकालेप्रथमाग्रयणंनभवति अनारब्धानांदर्शपूर्णमासाग्रयणादीनांप्रायश्चित्तविकल्पाद्विभ्रष्टेरपि विकल्पिताज्ञेया

आग्रयणमकृत्वाकिमपिनवोत्पन्नंसस्यंनभक्षणीयम् अकृताग्रयणोऽश्नीयान्नवान्नंयदिवैनरः ।

वैश्वानरायकर्तव्यश्चरुःपूर्णाहुत्स्तुवा १ यद्वासमिंन्द्ररायेतिशतवारंजपेन्मुनम् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP