श्रीपाण्डुरङ्गकमलङ्ककलानिधानकान्ताननं यदबुधानमनं मुधा न ।
श्रीवत्सकौस्तुभरमोल्लसितोरसं तं वन्दे पदाब्जभृतनन्ददुदारसन्तम् १
भीमाप्रियं सुकरुणार्णवमाशुतोषं दीनेष्टपोषमघसंहतिसिन्धुशोषम् ।
श्रीरुक्मिणीमतिमुषं पुरुषं परं तं वन्दे दुरन्तचरितं ह्रदि संचरत्नम् २
वन्देप्रतिघ्नन्तमघानि शङ्करं धत्तां स मे मूर्ध्नि दिवानिशं करम् ।
शिवां च विघ्नेशमथो पितामहं सरस्वतीमाशु भजेऽपि तामहम् ३
श्रीलक्ष्मी गरुडं सहस्त्रशिरसं प्रद्युम्नमीशं कपि
श्रीसूर्यं विधुभौमविद्गुरुकविच्छायासुतान्षण्मुखम् ।
इन्द्राद्यान्विबुधान् गुरुश्च जननी तातं त्वनन्ताभिधं
नत्वार्यान्वितनोमि माधवमुखान् धर्माब्धिसारं मितम् ४
दृष्ट्वा पूर्वनिबन्धान् प्राच्यांश्च नवांश्च तेषु सिद्धार्थान् ।
प्रायेण मूलाचनान्युज्झित्य लिखामि बालबोधाय ५
उक्त्वा धर्माब्धिरारेस्मिनिर्णयं कालगोचरम् ।
परिच्छेदे प्रथमजे द्वितीये च यथा क्रमम् ६
अथ गर्भादिसंस्कारान्धर्मान्गृह्यादिसंमतान्
वक्ष्ये संक्षेपतः संतोऽनुगृह्यन्तु दया लवः ७
काशीनाथभिधेनात्रनन्तोपाध्यायसूनुना ।
निर्णीयते यदेतत्तुशोधनीयं मनीषिभिः ८