तत्रकौस्तुभेतिथिवारनक्षत्राणांविषनाड्यउक्तास्तथापिज्योतिर्ग्रन्थेषुनक्षत्रविषघटिनामेवमहादोषत्वेनोक्तेर्नक्षत्रंविषघटीष्वेव
जननेउक्तशान्तिः कार्या तिथ्यादिविषघटीनामुपदोषत्वाद्रुद्राभिषेकादिकंकार्यम् विषघटीलक्षणं कौस्तुभादौज्ञेयम्
विषनाडीषुसंजातः पितृमातृधनात्मनाम् । नाशकृद्विषशस्त्रास्त्रैः क्रूरलग्नेऽशकेपिच १
एतद्विषनाडीषुशिशुजननसूचितारिष्टेत्यादिसंकल्पः एककुम्भेप्रतिमाचतुष्टयेरुद्रयमाग्निमृत्युदेवताः
कद्रुद्राययमायसोममग्निर्मुर्धापरंमृत्योरितिमन्त्रैःसंपूजयेत् ग्रहान्वाहानान्ते रुद्रयमाग्निमृत्यून्समिच्चरुघृतत्लाहुतिभिः
प्रतिदैवतंप्रतिद्रव्यमश्टोत्तरशतसंख्याभिःशेषेणेत्यादि गृहसिद्धान्नस्यहोमः ॥