अथपञ्चसूत्रीनिर्णयः लिङ्गोच्चतालिङ्गविस्तारोलिङ्गस्थौल्यंपीठविस्तारःप्रनालिकामानंचेतिपञ्चसूत्राणि
तत्रलिङ्गमस्तकविस्तारंलिङ्गोच्चतातुल्यंकृत्वातद्विगुणसूत्रवेष्टनार्हलिङ्गस्थौल्यंकृत्वालिङ्गात्सर्वतोलिङ्गसमविस्तारंपीठवर्तुलंकुर्यात्
पीठोच्चतालिङ्गोच्चद्विगुणा पीठाद्बहिःपीठोत्तरभागेलिङ्गसमदीर्घामूलेदैर्घ्यसमविस्ताराअग्रेतदर्धविस्ताराप्रनालिका
लिङ्गोच्चत्वत्रिगुणापीथोच्चतेतिकेचित् अथपीठमध्यभागे लिङ्गातद्विगुणस्थूलंपीठोच्चतातृतीयांशेनकण्ठंकुर्यात्
कण्ठस्योर्ध्वाधोभागयोःसमंवप्रद्वयंकृत्वापीठोपरिलिङ्गविस्तारषष्ठांशेनमेखलांकृत्वातदन्तःसंलग्नंतत्समंखातंकुर्यात्
प्रनालिकायामपिविस्तारतृतीयांशेनखातःपीठवन्मेखलाचकार्येति ॥