शुक्लादितिथिवारर्क्षयोगोऽश्चैरष्टभिस्त्रिभिः ५ त्रिस्थस्तष्टोवशिष्टश्चेत्सर्वाङ्कःसार्वकामिकः ।
त्रिषुक्रमाद्भवेच्छून्यंदुःखदारिद्र्यमृत्युदम् ६ यद्येकस्मिन्नेवदिनेपुराद्गच्छेत्पुरान्तरम् ।
प्रावेशिकीकालशुद्धिस्तदाज्ञेयानयात्रिकी ७ प्रवेशान्निर्गमोनेष्टःप्रवेशोनिर्गमादपि ।
जिष्णोःकदापिनवमेधिष्ण्येवारेतिथौतथा ८ याम्यादिग्गमनंशय्यावितानंछादनंगृहे ।
नकुम्भमीनगेचन्द्रेतृनकाष्ठस्यसंग्रहः ९ तर्पिताग्निसुह्रद्विप्रभार्यादिस्तृप्तिमानव्रजेत् ।
स्वकीयांपरकीयांवास्त्रियंपुरुषमेववा १० ताडयित्वातुयोगच्छेद्ब्राह्मणानवमान्यच ।
व्याधितःक्षुधितोवाऽपितदन्तंतस्यजीवितम् ॥