अथापराह्णादिविशेषनिर्णयः दिनस्यपञ्चविभागास्त्रित्रिमुहूर्तकास्तत्राद्योभागः प्रातः
संज्ञःद्वितीयःसंगवःतृतीयोमध्याह्नः चतुर्थोपराह्णः पञ्चमोभागःसायाह्नः
दिनस्यपञ्चदशोभागोमुहूर्तः तत्रसप्तमोगन्धर्वोष्टमीमुहूर्तःकुतुपः नवमोरौहिणः
तत्रदर्शादिश्रद्धानांनिर्णय पुर्वेपरिच्छेदयोःप्रायेणोक्तः विशेषस्तूच्यते
साग्निकानांकात्यायनादीनामन्वाधानपिण्डपितृयज्ञदर्शश्राद्धानामेकदिनकर्तव्यत्वनियमा
त्रेधाविभक्तदिनतृतीयभागरूपापराह्णव्यापिन्याममायादर्शश्राद्धंकर्तव्यम् ॥