श्रीपराशर उवाच
तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥१॥
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥२॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥३॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणोऽयनं धाम्रां तस्याधारः स्वयं हृदि ॥४॥
उत्तानपादपुत्रस्तु तामाराध्य जगत्पतिम् । स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥५॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥६॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥७॥
येन विप्र विधानेन तन्ममैकमनाः श्रृणु । विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बु ततश्चान्नमदप्यदिख जगत् ॥८॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमं पुष्णात्यथेन्दुश्च वायुनादीमयैर्दिवि ।
नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यानिलमूर्तिषु ॥९॥
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥१०॥
सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः । चतुष्प्रकारा भगवानादत्ते सविता मुने ॥११॥
आकाशगंगासलिलं तथादाय गभस्तिमान् । अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥१२॥
तस्य संस्पर्शनिर्धुतपापपंको द्विजोत्तम । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥१३॥
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः । आकाशगंगासलिलं त द्गोभिः क्षिप्यते रवेः ॥१४॥
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः । दॄष्टार्कपतितं ज्ञेयं तद्गांगः दिग्गजोज्झितम् ॥१५॥
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः । तत्सुर्यरश्मिभिः सर्वं समादाय निरस्यते ॥१६॥
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगंगासलिलं दिव्यं स्नानं माहामुने ॥१७॥
यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥१८॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । साधकः फलपाकान्तः प्रजानां द्विज जायते ॥१९॥
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्ति ते ॥२०॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च वृष्टिपूर्वकाः । सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥२१॥
वृष्ट्या धॄतमिदं सर्वमन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥२२॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणात्मकः ॥२३॥
हृदि नारायणस्तस्य शिशुमरस्य संस्थितः । बिभर्ता सर्वभूतानामदिभूतः सनातनः ॥२४॥
इति श्रीविष्णुपुराणे द्वितीयेंऽशे नवमोऽध्यायः ॥९॥