ब्राह्मण उवाच
ऋभुर्वर्षसहस्त्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥१॥
नगरस्य बहिः सोऽथ निदाघं ददृशे मुनिः । महाबलपरिवारे पुरं विशति पार्थिवे ॥२॥
दुरे स्थितं महाभागं जनसम्मर्दवर्जकम् । क्षुत्क्षामकण्ठमायन्तमरण्यात्ससमित्कुशम् ॥३॥
दृष्टा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥४॥
निदाघ उवाच
भो विप्र जनसम्मर्दो महानेष नरेस्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥५॥
ऋभुरुवाच
नराधिपोऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥६॥
निदाघ उवाच
योऽयं गजेन्द्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रितम् । अधिरूढो नरेन्द्रोऽयं परिलोकस्तथेतरः ॥७॥
ऋभुरुवाच
एतौ हि गजराजानौ युगपद्दर्शितौ मम । भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥८॥
तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥९॥
निदाघ उवाच
गजो योऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवाहकसम्बन्धं को न जानाति वै द्विज ॥१०॥
ऋभुरुवाच
जानम्यहं यथा ब्रह्मंस्तथा मामवबोधय । अधः शब्दनिगद्यं हि किं चोर्ध्वमभिधीयते ॥११॥
ब्राह्मण उवाच
इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् । श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥१२॥
उपर्यहं यथा राजा त्वमधः कुत्र्चरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥१३॥
ऋभुरुवाच
त्वं राजेव द्विजश्रेष्ठ स्थितोऽहं गजवद्यदि । तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥१४॥
ब्राह्मण उवाच
इत्युक्तः सत्वरं तस्य प्रगृह्य चरणावुभौ । निदाघस्त्वाह भगवानाचायंस्त्वमृभ्रुर्ध्रुवम् ॥१५॥
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥१६॥
ऋभुरुवाच
तवोपदेशदानाय पूर्वशुश्रुषणादूतः । गुरुस्नेहादुभुर्नाम निदाघ समुपागतः ॥१७॥
तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥१८॥
ब्राह्मण उवाच
एवमुक्त्वा ययौ विद्वन्निदाघं स ऋभुर्गुरुः । निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥१९॥
सर्वभूतान्यभेदेन ददृशे स तदात्मनः । यथा ब्रह्मापरो मुक्तिमवाप परमां द्विजः ॥२०॥
तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः । भव सर्वगतं जानन्नात्मनमवनीपते ॥२१॥
सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तिदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥२२॥
एकः समस्तं यदिहास्ति कित्र्चि त्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेत-दात्मस्वरूपं त्यज भेदमोहम् ॥२३॥
श्रीपराशर उवाच
इतीरितस्तेन स राजवर्य - स्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणाप्तबोध- स्तत्रैव जन्मन्यपवर्गमाप ॥२४॥
इति भरतनरेन्द्रसारवृत्तं कथयति यश्च श्रृणोति भक्तियुक्तः । स विमलमतिरेति नात्ममोहं भवति च संसरणेषु मुक्तियोग्यः ॥२५॥
इति श्रीविष्णुपुराणे द्वितीयेंऽशें षोड्शोऽध्यायः ॥१६॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णूपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयोंऽशः समाप्तः ॥