यथा चित्र पटे दृष्टम् अवस्थानां चतुष्टयम् । परमात्मनि विज्ञेयं तथा अवस्था चतुष्टयम् ॥१॥
यथा धौतः घट्टितः च लाञ्छितः रञ्जितः पटः । चित् अन्तर्यामी सूत्रात्मा विराट् आत्मा तथा ईर्यते ॥२॥
स्वतः शुभ्रः अत्र धौतः स्यात् घट्टितः अन्न विलेपनात् । मष्याकारैः लाञ्छितः स्यात् रञ्जितः वर्ण पूरणात् ॥३॥
श्वेतः चित् अन्तर्यामी तु मायावी सूक्ष्म सृष्टितः । सूत्रात्मा स्थूल सृष्ट्या इव विराट् इति उच्यते परः ॥४॥
ब्रह्म आद्याः स्तम्ब पर्यन्ताः प्राणिनः अत्र जडा अपि । उत्तम अधम भावेन वर्तन्ते पट चित्रवत् ॥५॥
चित्र अर्पित मनुष्याणां वस्त्र आभासाः पृथक् पृथक् । चित्र आधारेण वस्त्रेण सदृशा इव कल्पिताः ॥६॥
पृथक् पृथक् चिदाभासाः चैतन्य अध्यस्त देहिनाम् । कल्प्यन्ते जीव नामानः बहुधा संसरन्ति अमी ॥७॥
वस्त्राभास स्थितावर्णान् यद्वत् आधार वस्त्रगान् । वदन्ति अज्ञाः तथा जीव संसारं चित् गतं विदुः ॥८॥
चित्र स्थ पर्वत आदीनां वस्त्राभासः न लिख्यते । सृष्टि स्थ मृत्तिकादीनां चिदाभासः तथा न हि ॥९॥
संसारः परमार्थः अयं संलग्नः स्वात्म वस्तुनि । इति भ्रान्तिः अविद्या स्यात् विद्यया एषा निवर्तते ॥१०॥
आत्माभासस्य जीवस्य संसारः न आत्म वस्तुनः । इति बोधः भवेत् विद्या लभ्यते असौ विचारणात् ॥११॥
सदा विचारयेत् तस्मात् जगत् जीव परात्मनः । जीव भाव जगत् भाव बाधे स्वात्मा एव शिष्यते ॥१२॥
न अप्रतीतिः तयोः बाधः किन्तु मिथ्यात्व निश्चयः । नः चेत् सुषुप्ति मूर्च्छादौ मुच्येत अयत्नतः जनः ॥१३॥
परमात्मा अवशेषः अपि तत् सत्यत्व विनिश्चयः । न जगत् विस्मृतिः नः चेत् जीवन् मुक्तिः न सम्भवेत् ॥१४॥
परोक्षा च अपरोक्ष इति विद्या द्वेधा विचार जा । तत्र अपरोक्ष विद्याप्तौ विचारः अयं समाप्यते ॥१५॥
अस्ति ब्रह्म इति चेत् वेद परोक्ष ज्ञानम् एव तत् । अहं ब्रह्म इति चेत् वेद साक्षात्कारः स उच्यते ॥१६॥
तत् साक्षात्कार सिद्ध्यर्थम् आत्म तत्त्वं विविच्यते । येन अयं सर्व संसारात् सद्य एव विमुच्यते ॥१७॥
कूटस्थः ब्रह्म जीवेषु इति एवं चित् चतुर्विधा । घटाकाश महाकाशौ जलाकाश अभ्र खे यथा ॥१८॥
घटावत् छिन्न खे नीरं यत् तत्र प्रतिबिम्बितः । साभ्र नक्षत्र आकाशः जलाकाशः उदीर्यते ॥१९॥
महाकाशस्य मध्ये यत् मेघ मण्डलम् ईक्ष्यते । प्रतिबिम्बतया तत्र मेघाकाशः जले स्थितः ॥२०॥