न निरूपयितुं शक्या विस्पष्टं भासते च या । सा माया इति इन्द्रजाल आदौ लोकाः संप्रतिपेदिरे ॥१४१॥
स्पष्टं भाति जगत् च इदम् अशक्यं तत् निरूपणम् । मायामयं जगत् तस्मात् ईक्षस्व अपक्षपाततः ॥१४२॥
निरूपयितुम् आरब्धे निखिलैः अपि पण्डितैः । अज्ञानं पुरतः तेषां भाति कक्षासु कासुचित् ॥१४३॥
देह इन्द्रिय आदयोः भावाः वीर्येण उत्पादिताः कथम् । कथं वा तत्र चैतन्यम् इति उक्ते ते किम् उत्तरम् ॥१४४॥
वीर्यस्य एषः स्वभावः चेत् कथं तत् विदितं त्वया । अन्वय व्यतिरेकौ यौ भग्नौ तौ वन्ध्य वीर्यतः ॥१४५॥
न जानामि किम् अपि एतत् इति अन्ते शरणं तव । अतः एव महन्तः अस्य प्रवदन्ति इन्द्रजालताम् ॥१४६॥
एतस्मात् किम् इव इन्द्रजालम् अपरम् यत् गर्भ वास स्थितम् रेतः चेतति हस्त मस्तक पद प्रोद्भूत नानाङ्कुरम् ।
पर्यायेण शिषुत्व यौवन जरा वेशैः अनेकैः वृतम् पश्यति अत्ति शृणोति जिघ्रति तथा गच्छति अथ आगच्छति ॥१४७॥
देहवत् वटधान आदौ सुविचार्य विलोक्यताम् । क्व धाना कुत्र वा वृक्षः तस्मात् माया इति निश्चिनु ॥१४८॥
निरुक्तौ अभिमानं ये दधते तार्किक आदयः । हर्ष मिश्र आदिभिः ते तु खण्डन आदौ सुशिक्षिताः ॥१४९॥
अचिन्त्याः खलु ये भावाः न तान् तर्केषु योजयेत् । अचिन्त्य रचना रूपं मनसा अपि जगत् खलु ॥१५०॥
अचिन्त्य रचना शक्ति बीजं माया इति निश्चिनु । माया बीजं तत् एव एकं सुषुप्तौ अनुभूयते ॥१५१॥
जाग्रत् स्वप्न जगत् तत्र लीनं बीज इव द्रुमः । तस्मात् अशेष जगतः वासनाः तत्र संस्थिताः ॥१५२॥
या बुद्धि वासनाः तासु चैतन्यं प्रतिबिम्बति । मेघाकाशवत् अस्पष्ट चित् आभासः अनुमीयताम् ॥१५३॥
साभासम् एव तत् बीजं धीरूपेण प्ररोहति । अतः बुद्धौ चित् आभासः विस्पष्टं प्रतिभासते ॥१५४॥
मायाभासेन जीवेशौ करोति इति श्रुतौ श्रुतम् । मेघाकाश जलाकाशौ इव तौ सुव्यवस्थितौ ॥१५५॥ मे
घवत् वर्तते माया मेघस्थिततुषारवत्। धीवासनाः चिदाभासः तुषारस्थ खवत्स्थितः ॥१५६॥
मायाधीनः चिदाभासः श्रुतः मायी महेश्वरः । अन्तर्यामी च सर्वज्ञः जगत् योनिः सः एव हि ॥१५७॥
सौषुप्तम् आनन्दमयं प्रक्रम्यैवं श्रुतिः जगौ । एष सर्वेश्वरः इति सः अयं वेदोक्तः ईश्वरः ॥१५८॥
सर्वज्ञत्व आदिके तस्य न एव विप्रतिपद्यताम् । श्रौतार्थस्य अवितर्क्यत्वान् मायायां सर्वसम्भवात् ॥१५९॥
अयं यत् सृजते विश्वं तत् अन्यथायितुं पुमान् । न कः अपि शक्तः तेनायं सर्वेश्वरः इति ईरितः ॥१६०॥