ज्ञानीनां विपरीतः अस्मान् निश्चयः सम्यक् ईक्ष्यते । स्वस्वनिश्चयतः बद्धः मुक्तः अहं च इति मन्यते ॥२४१॥
न अद्वैतम् अपरोक्षं चेत् न चिद्रूपेण भासनात् । अशेषेण न भातं चेत् द्वैतं किं भासते अखिलम् ॥२४२॥
दिङ्मात्रेण विभानं तु द्वयोः अपि समं खलु । द्वैतसिद्धिवत् अद्वैतसिद्धिः ते तावता न किम् ॥२४३॥
द्वैतेन हीनम् अद्वैतं द्वैतज्ञाने कथं तु इदम् । चित् भानं तु अविरोध्यस्य द्वैतस्य अतः असमे उभे ॥२४४॥
एवं तर्हि शृणु द्वैतम् असन् मायामयत्वतः । तेन वास्तवम् अद्वैतं परिशेषात् विभासते ॥२४५॥
अचिन्त्यरचनारूपं माया एव सकलं जगत् । इति निश्चित्य वस्तुत्वम् अद्वैते परिशेष्यताम् ॥२४६॥
पुनः द्वैतस्य वस्तुत्वं भाति चेत् त्वम् तथा पुनः । परिशीलय कः वा अत्र प्रयासः तेन ते वद ॥२४७॥
कियन्तं कालम् इति चेत् खेदः अयं द्वैतम् इष्यताम् । अद्वैते तु न युक्तः अयं सर्वानार्थ निवारणात् ॥२४८॥
क्षुत् पिपासा आदयः दृष्टा यथा पूर्वं मायीति चेत् । मत् शब्द वाच्ये अहङ्कारे दृश्यतां नेति कः वदेत् ॥२४९॥
चित् रूपे अपि प्रसज्येरां तत् आत्म अध्यासतः यदि । मा अध्यासं कुरु किन्तु त्वं विवेकं कुरु सर्वदा ॥२५०॥
झटिति अध्यासः आयाति दृढ वासनया इति चेत् । आवर्तयेत् विवेकं च दृढं वासयितुं सदा ॥२५१॥
विवेके द्वैतमिथ्यात्वं युक्त्या एव इति न भण्यताम् । अचिन्त्य रचना तु अस्य अनुभूतिः हि स्वसाक्षिकी ॥२५२॥
चित् अपि अचिन्त्यरचना यदि तर्हि अस्तु नः वयम् । चितिं सुचिन्त्यरचनां ब्रूमः नित्यत्वकारणात् ॥२५३॥
प्राक् अभावः न अनुभूतः चितेः नित्या ततः चितिः । द्वैतस्य प्राक् अभावः तु चैतन्येन अनुभूयते ॥२५४॥
प्राक् अभाव युतं द्वैतं रच्यते हि घटादिवत् । तथा अपि रचना अचिन्त्या मिथ्या तेन इन्द्रजालवत् ॥२५५॥
चित् प्रत्यक्षा ततः अन्यस्य मिथ्यात्वं च अनुभूयते । न अद्वैतम् अपरोक्षं च इति एतत् न व्याहतं कथम् ॥२५६॥
इत्थं ज्ञात्वा अपि असन्तुष्टाः केचित् कुतः इति ईर्यताम् । चार्वाक आदेः प्रबुद्धस्य अपि आत्मा देहः कुतः वद ॥२५७॥
सम्यक् विचारः न अस्ति अस्य धी दोषात् इति चेत् तथा । असन्तुष्टाः तु शास्त्रार्थं न तु ऐक्षन्त विशेषतः ॥२५८॥
यदा सर्वे प्रमुच्यन्ते कामा ये अस्य हृदि श्रिताः । इति श्रौतं फलं दृष्टं न इति चेत् दृष्टम् एव तत् ॥२५९॥
यदा सर्वे प्रभिद्यन्ते हृदय ग्रन्थयः तु इति । कामाः ग्रन्थि स्वरूपेण व्याख्याता वाक्यशेषतः ॥२६०॥