वर्ण आश्रम आदयः देहे मायया परिकल्पिताः । न आत्मनः बोध रूपस्य इति एवं तस्य विनिश्चयः ॥ १०१॥
समाधिम् अथ कर्माणि मा करोतु करोतु वा । हृदयेन अस्त सर्वास्थः मुक्त एव उत्तम आशयः ॥ १०२॥
नैष्कर्म्येण न तस्य अर्थः तस्य अर्थः अस्ति न कर्मभिः । न समाधान जप्याभ्यां यस्य निर्वासनं मनः ॥ १०३॥
आत्मा असङ्गः ततः अन्यत् स्यात् इन्द्रजालं हि मायिकम् । इति अचञ्चल निर्णिते कुतः मनसि वासना ॥ १०४॥
एवं न अस्ति प्रसङ्गः अपि कुतः अस्य अतिप्रसञ्जनम् । प्रसङ्गः यस्य तस्य एव शङ्क्येत अतिप्रसञ्जनम् ॥ १०५॥
विधि अभावात् न बालस्य दृश्यते अतिप्रसञ्जनम् । स्यात् कुतः अतिप्रसङ्गः अस्य विधि अभावे समे सति ॥ १०६॥
न किंचित् वेत्ति बालः चेत् सर्वं वेत्ति एव तत्त्ववित् । अल्पज्ञस्य एव विधयः सर्वे स्युः न अन्ययोः द्वयोः ॥ १०७॥
शाप अनुग्रह सामर्थ्यं यस्य असौ तत्त्ववित् यदि । तत् न शाप आदि सामर्थ्यं फलं स्यात् तपसः यतः ॥ १०८॥
व्यास आदेः अपि सामर्थ्यं दृश्यते तपसः बलात् । शाप आदि कारणात् अन्यत् तपः ज्ञानस्य कारणम् ॥। १०९॥
द्वयम् अस्य अस्ति तस्य एव सामर्थ्य ज्ञानयोः जनिः । एक एकं तु ततः कुर्वन् एक एकं लभते फलम् ॥ ११०॥
सामर्थ्यहीनः निन्द्यः चेत् यतिः विधिविवर्जितः । निन्द्यते तत् तपः अपि अन्यैः अनिशं भोगलंपटैः ॥ १११॥
भिक्षा वस्त्र आदि रक्षेयुः यदि एते भोगतुष्टये । अहो यतित्वम् एतेषां वैराग्य भर मन्थरम् ॥ ११२॥
वर्णाश्रम परान् मूढाः निन्दन्तु इति उच्यते यदि । देहात्म मतयः बुद्धं निन्दन्तु आश्रम मानिनः ॥ ११३॥
तत् इत्थं तत्त्वविज्ञाने साधनानुपमर्दनात् । ज्ञानिना आचरितुं शक्यं सम्यक् राज्यादि लौकिकम् ॥ ११४॥
मिथ्यात्वबुद्ध्या तत्र इच्छा न अस्ति चेत् तर्हि मा अस्तु तत् । ध्यायन् वा अथ व्यवहरन् यथा आरब्धं वसतु अयम् ॥ ११५॥
उपासकः तु सततं ध्यायन् एव वसेत् यथः । ध्यानेन एव कृतं तस्य ब्रह्मत्वं विष्णुतादिवत् ॥ ११६॥
ध्यान उपादानकं यत् तत् ध्यान अभावे विलीयते । वास्तवी ब्रह्मता न एव ज्ञान अभावे विलीयते ॥ ११७॥
ततः अभिज्ञापकं ज्ञानं न नित्यं जनयति अदः । ज्ञापक अभाव मात्रेण न हि सत्यं विलीयते ॥ ११८॥
अस्ति एव उपासकस्य अपि वास्तवी ब्रह्मता इति चेत् । पामराणां तिरश्चां च वास्तवी ब्रह्मता न किम् ॥ ११९॥
अज्ञानात् अपुमर्थत्वम् उभयत्र अपि तत् समम् । उपवासात् यथा भिक्षा वरं ध्यानं तथा अन्यथः ॥ १२०॥