पामराणां व्यवहृतेः वरं कर्म आदि अनुष्ठितिः । ततः अपि सगुण उपास्तिः निर्गुण उपासना ततः ॥ १२१॥
यावत् विज्ञान सामीप्यं तावत् श्रैष्ठ्यं विवर्धते । ब्रह्मज्ञानायते साक्षात् निर्गुण उपासनं शनैः ॥ १२२॥
यथा संवादिविभ्रान्तिः फलकाले प्रमायते । विद्यायते तथा उपास्तिः मुक्तिकाले अति पाकतः ॥ १२३॥
संवादिभ्रमतः पुंसः प्रवृत्तस्य मानतः । प्रमा इति चेत् तथा उपास्तिः मा अन्तरे कारणायताम् ॥ १२४॥
मूर्तिध्यानस्य मन्त्र आदेः अपि कारणता यदि । अस्तु नाम तथा अपि अत्र प्रत्यासत्तिः विशिष्यते ॥ १२५॥
निर्गुण उपासनं पक्वं समाधिः स्यात् शनैः ततः । यः समाधिः निरोध आख्यः सः अनायासेन लभ्यते ॥ १२६॥
निरोध लाभे पुंसः अन्तः असङ्गं वस्तु शिष्यते । पुनः पुनः वासिते अस्मिन् वाक्यात् जायेत तत्त्वधीः ॥ १२७॥
निर्विकार असङ्ग नित्य स्वप्रकाश एक पूर्णताः । बुद्धौ झटिति शास्त्र उक्ताः आरोहन्ति अविवादतः ॥ १२८॥
योग अभ्यासः तु एतत् अर्थः अमृतबिन्दु आदिषु श्रुतः । एवं च दृष्ट द्वार अपि हेतुत्वात् अन्यतः वरम् ॥ १२९॥
उपेक्ष्य तत् तीर्थ यात्रा जप आदीन् एव कुर्वताम् । पिण्डं समुत्सृज्य करं लेढिति न्याय आपतेत् ॥ १३०॥
उपासकानाम् अपि एवं विचार त्यागतः यदि । बाधं तस्मात् विचारस्य असम्भवे योगः ईरितः ॥ १३१॥
बहु व्याकुल चित्तानां विचारात् तत्त्व धीः न हि । योगः मुख्यः ततः तेषां धीदर्पः तेन नश्यति ॥ १३२॥
अव्याकुलधियां मोहमात्रेण आच्छादित आत्मनाम् । साङ्ख्यनामाः विचाराः स्यात् मुख्यः झटिति सिद्धिदः ॥ १३३॥
यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति सः पश्यति ॥ १३४॥
तत् कारणं साङ्ख्य योग अभिपन्नः इति हि श्रुतिः । यः तु श्रुतेः विरुद्धः सः आभासः साङ्ख्ययोगयोः ॥ १३५॥
उपासनं न अतिपक्वम् इह यस्य परत्र सः । मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते ॥ १३६॥
यं यं वा अपि स्मरन् भावं त्यजति अन्ते कलेवरम् । तं तम् एव एति यत् चित्तः तेन याति इति शास्त्रतः ॥ १३७॥
अन्त्य प्रत्ययतः नूनं भावि जन्म तथा सति । निर्गुण प्रत्ययः अपि स्यात् सगुण उपासने यथा ॥ १३८॥
नित्य निर्गुण रूपं तत् नाम मात्रेण गीयताम् । अर्थतः मोक्ष एव एश संवादिभ्रमवत् मतः ॥ १३९॥
तत् सामर्थ्यात् जायते धीः मूल अविद्या निवर्तिका । अविमुक्त उपासनेन तारक ब्रह्म बुद्धिवत् ॥ १४०॥