सः अकामः निष्कामः इति हि अशरीरः निरिन्द्रियः । अभयं हि इति मुक्तत्वं तापनीये फलं श्रुतम् ॥ १४१॥
उपासनस्य सामर्थ्यात् विद्या उत्पत्तिः भवेत् ततः । न अन्यः पन्थाः इति हि एतत् शास्त्रं न एव विरुध्यते ॥ १४२॥
निष्काम उपासनात् मुक्तिः तापनीये समीरिता । ब्रह्मलोकः सकामस्य शैब्यप्रश्ने समीरितः ॥ १४३॥
यः उपासते त्रिमात्रेण ब्रह्मलोके सः नीयते । सः एतस्मात् जीवघनात् परं पुरुषम् ईक्षते ॥ १४४॥
अप्रतीक अधिकरणे तत् क्रतुः न्यायः ईरितः । ब्रह्मलोकफलं तस्मात् सकामस्य इति वर्णितम् ॥ १४५॥
निर्गुण उपास्ति सामर्थ्यात् तत्र तत्त्वम् अवेक्षते । पुनः आवर्तते न अयं कल्पान्ते च विमुच्यते ॥ १४६॥
प्रणव उपास्तयः प्रायः निर्गुणाः एव वेदगाः । क्वचित् सगुणता अपि उक्ता प्रणव उपासनस्य हि ॥ १४७॥
पर अपर ब्रह्म रूपः ओङ्कारः उपवर्णितः । पिप्पलादेन मुनिना सत्यकामाय पृच्छते ॥ १४८॥
एतत् आलम्बनं ज्ञात्वा यः यत् इच्छति तस्य तत् । इति प्रोक्तं यमेन अपि पृच्छते नचिकेतसे ॥ १४९॥
इह वा मरणे च अस्य ब्रह्मलोके अथवा भवेत् । ब्रह्म साक्षात् कृतिः सम्यक् उपासीनस्य निर्गुणम् ॥ १५०॥
अर्थः अयम् आत्मगीतायाम् अपि स्पष्टम् उदीरितः । विचाराक्षमः आत्मानम् उपासीत इति सन्ततम् ॥ १५१॥
साक्षात् कर्तुम् असक्तः अपि चिन्तयेत् माम् अशङ्कितः । कालेन अनुभव आरूढः भवेत् आफलितः ध्रुवम् ॥ १५२॥
यथा अगाध निधेः लब्धौ न उपायः खननं विना । मत् लभे अपि तथा स्वात्मचिन्तां मुक्त्वा न च अपरः ॥ १५३॥
देह उपलम् अपाकृत्य बुद्धिकुद्दलकात् पुनः । खात्वा मनोभुवं भूयः गृह्णीयात् मां निधिं पुमान् ॥ १५४॥
अनुभूतेः अभावे अपि ब्रह्म अस्मि इति एव चिन्त्यताम् । अपि असत् प्राप्यते ध्यानात् नित्य आप्तं ब्रह्म किं पुनः ॥ १५५॥
अनात्म बुद्धि शैथिल्यं फलं ध्यानात् दिने दिने । पश्यन् अपि न चेत् ध्यायेत् कः अपरः अस्मात् पशुः वद ॥ १५६॥
देह अभिमानं विध्वस्य ध्यानात् आत्मानम् अद्वयम् । पश्यन् मर्त्यः अमृतः भूत्वा हि अत्र ब्रह्म समश्नुते ॥ १५७॥
ध्यानदीपम् इमं सम्यक् परामृशति यः नरः । मुक्तसंशयः एव अयं ध्यायति ब्रह्म सन्ततम् ॥ १५८॥
इति नवमोऽध्यायः ॥ ९॥