आदौ मनः तत् अनुबन्ध विमोक्ष दृष्टी पश्चात् प्रपञ्च रचना भुवनाभिधाना ।
इति आदिकाः स्थितिः इयं हि गता प्रतिष्ठाम् आख्यायिकाः सुभग बाल जनोदित इव ॥२१॥
बालस्य हि विनोदाय धात्री वक्ति शुभां कथाम् । क्वचित् सन्ति महाबाहो राजपुत्राः त्रयः शुभाः ॥२२॥
द्वौ न जातौ तथा एकः तु गर्भः एव न च स्थितः । वसन्ति ते धर्मयुक्ताः अत्यन्तासति पत्तने ॥२३॥
स्वकीयात् शून्य नगरान् निर्गत्य विमलाशयाः । गच्छन्तः गगने वृक्षान् ददृशुः फलशालिनः ॥२४॥
भविष्यन् नगरे तत्र राजपुत्राः त्रयः अपि ते । सुखम् आद्य स्थिताः पुत्र मृगया व्यवहारिणः ॥२५॥
धात्र्येति कथिता राम बालक आख्यायिका शुभा । निश्चयं सः ययौ बालः निर्विचारणया धिया ॥२६॥
इयं संसार रचना विचार उज्झित चेतसाम् । बालक आख्यायिका इव इत्थम् अवस्थितिम् उपागता ॥२७॥
इति आदिभिः उपाख्यानैः मायाशक्तेः च विस्तरम् । वसिष्ठः कथयामास स एव शक्तिः निरूप्यते ॥२८॥
कार्यात् आश्रयतः च एषा भवेत् शक्तिः विलक्षणा । स्फोट अङ्गारौ दृश्यमानौ शक्तिः तत्र अनुमीयते ॥२९॥
पृथु बुध्न उदरा आकारः घटः कार्यः अत्र मृत्तिका । शब्दादिभिः पञ्चगुणैः युक्ता शक्तिः तु अतद्विधा ॥३०॥
न पृथ्वी आदिः न शब्द आदिः शक्तौ अस्तु यथा तथा । अतः एव हि अचिन्त्य एषा न निर्वचनम् अर्हति ॥३१॥
कार्य उत्पत्तेः पुरा शक्तिः निगूढा मृदि अवस्थिता । कुलाल आदि सहायेन विकार आकारतां व्रजेत् ॥३२॥
पृथ्वी आदि विकार अन्तं स्पर्शादिं च अपि मृत्तिकाम् । एकीकृत्य घटं प्राहुः विचार विकला जनाः ॥३३॥
कुला व्यापृतेः पूर्वः यावान् अंशः सः नः घटः । पश्चात् तु पृथुबुध्नादिमत्त्वे युक्ता हि कुम्भता ॥३४॥
सः घटः न मृदः भिन्नः वियोगे सति अनीक्षणात् । न अपि अभिन्नः पुरा पिण्ड दशायाम् अनवेक्षणात् ॥३५॥
अतः अनिर्वचनीयः अयं शक्तिवत् तेन शक्तिजः । अव्यक्तव्ये शक्तिः उक्ता व्यक्तव्ये घटनामभृत् ॥३६॥
ऐन्द्रजालिकनिष्ठा अपि माया न व्यज्यते पुरा । पश्चात् गन्धर्वसेनादिरूपेण व्यक्तिम् आप्नुयात् ॥३७॥
एवं मायामयत्वेन विकारस्य अनृतात्मताम् । विकार आधार मृत् वस्तु सत्यत्वं च अब्रवीत् श्रुतिः ॥३८॥
वाङ् निष्पाद्यं नाम मात्रं विकारः न अस्य सत्यता । स्पर्श आदि गुण युक्ता तु सत्या केवल मृत्तिका ॥३९॥
व्यक्त अव्यक्ते तत् आधारः इति त्रिषु आद्ययोः द्वयोः । पर्यायः कालभेदेन तृतीयः तु अनुगच्छति ॥४०॥