ब्रह्मानन्दे अद्वैतानन्दः - श्लोक ८१ ते १०५

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


यावत् यावत् अवज्ञा स्यात् तावत् तावत् तत् ईक्षणम् । यावत् यावत् वीक्ष्यते तत् तावत् तावत् उभे त्यजेत् ॥८१॥

तत् अभ्यासेन विद्यायां सुस्थितायाम् अयं पुमान् । जीवन् एव भवेत् मुक्तः वपुः अस्तु यथा तथा ॥८२॥

तत् चिन्तनं तत् कथनम् अन्योन्यं तत् प्रबोधनम् । अतत् एक परत्वं च ब्रह्म अभ्यासं विदुः बुधाः ॥८३॥

वासना अनेक कालिना दीर्घ कालं निरन्तरम् । सादरं च अभ्यस्यमाने सर्वथा एव निवर्तते ॥८४॥

मृत् शक्तिवत् ब्रह्म शक्तिः अनेकान् अनृतान् सृजेत् । यत् वा जीवगता निद्रा स्वप्नः च अत्र निदर्शनम् ॥८५॥

निद्रा शक्तिः यथा जीवे दुर्घट स्वप्नकारिणी । ब्रह्मणि एषा स्थिता माया सृष्टि स्थिति अन्त कारिणी ॥८६॥

स्वप्ने वियत् गतिं पश्येत् स्व मूर्धच्छेदनं यथा । मुहूर्ते वत्सर ओघं च मृत पुत्र आदिकं पुनः ॥८७॥

इदं युक्तम् इदं न इति व्यवस्था तत्र दुर्लभा । यथा यथ ईक्ष्यते यत् यत् तत् तत् युक्तं तथा तथा ॥८८॥

ईदृशः महिमा दृष्टः निद्रा शक्तेः यदा तदा । माया शक्तेः अचिन्त्यः अयं महिमा इति किम् अद्भुतम् ॥८९॥

शयाने पुरुषे निद्रा स्वप्नं बहुविधं सृजेत् । ब्रह्मणि एवं निर्विकारे विकारान् कल्पयति असौ ॥९०॥

ख अनिल अग्नि जल ऊर्वि अण्ड लोक प्राणि शिलादिकाः । विकाराः प्राणि धीषु अन्तः चित् छाया प्रतिबिम्बिता ॥९१॥

चेतन अचेतनेषु एषु सच्चिदानन्द लक्षणम् । समानं ब्रह्म भिद्येते नाम रूपे पृथक् पृथक् ॥९२॥

ब्रह्मणि एते नाम रूपे पटे चित्रम् इव स्थिते । उपेक्ष्य नाम रूपे द्वे सच्चिदानन्द धीः भवेत् ॥९३॥

जलस्थे अधोमुखे स्वस्य देहे दृष्टे अपि उपेक्ष्य तम् । तीरस्थ एव देहे स्वे तात्पर्यं स्यात् यथा तथा ॥९४॥

सहस्रशः मनोराज्ये वर्तमाने सदा एव तत् । सर्वैः उपेक्ष्यते यदवत् उपेक्षा नामरूपयोः ॥९५॥

क्षणे क्षणे मनोराज्यं भवति एव अन्यथा अन्यथा । गतं गतं पुनः न अस्ति व्यवहारः बहिः तथा ॥९६॥

न बाल्यं यौवने लब्धं यौवनं स्थाविरे तथा । मृतः पिता पुनः न अस्ति न आयाति एव गतं दिनम् ॥९७॥

मनोराज्यात् विशेषः कः क्षण ध्वंसिनि लौकिके । अतः अस्मिन् भासमाने अपि तत् सत्यत्व धियं त्यजेत् ॥९८॥

उपेक्षिते लौकिके धीः निर्विघ्ना ब्रह्म चिन्तने । नटवत् कृत्रिम् आस्थाय निर्वहति एव लौकिकम् ॥९९॥

प्रवहति अपि नीरे अधः स्थिरा प्रौढ शिला यथा । नाम रूप अन्यथात्वे अपि कूटस्थं ब्रह्म न अन्यथा ॥१००॥

निष्छिद्रे दर्पणे भाति वस्तु गर्भं बृहत् वियत् । सत् चित् घने तथा नाना जगत् गर्भम् इदं वियत् ॥१०१॥

अदृष्ट्वा दर्पणं न एव तत् अन्तस्थे क्षणं तथा । अमत्वा सच्चिदानन्दं नाम रूप मतिः कुतः ॥१०२॥

प्रथमं सच्चिदानन्दे भासमाने अथ तावता । बुद्धिं नियम्य न एव ऊर्ध्वं धारयेत् नाम रूपयोः ॥१०३॥

एवं च निर्जगत् ब्रह्म सच्चिदानन्द लक्षणम् । अद्वैत आनन्द एतस्मिन् विश्राम्यन्तु जनाः चिरम् ॥१०४॥

ब्रह्मानन्द अभिधे ग्रन्थे तृतीयः अध्यायः ईरितः । अद्वैत आनन्द एव स्यात् जगत् मिथ्यात्व चिन्तया ॥१०५॥

इति त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : March 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP