एक मृत् पिण्ड विज्ञानात् सर्व मृण्मय धीः यथा । तथा एक ब्रह्म बोधेन जगत् बुद्धिः विभाव्यताम् ॥६१॥
सत् चित् सुखात्मकं ब्रह्म नाम रूपात्मकं जगत् । तापनीये श्रुतं ब्रह्म सच्चिदानन्द लक्षणम् ॥६२॥
सत् रूपम् आरुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचः । सनत्कुमारः आनन्दम् एवम् अन्यत्र गम्यताम् ॥६३॥
विचिन्त्य सर्वरूपाणि कृत्वा नामानि तिष्ठति । अहं व्याकरवाणीमे नामरूपेः इति श्रुतेः ॥६४॥
अव्याकृतं पुरा सृष्टेः ऊर्ध्वं व्याक्रीयते द्विधा । अचिन्त्य शक्तिः माया एषा ब्रह्मणि अव्याकृता अभिधा ॥६५॥
अविक्रिय ब्रह्म निष्ठा विकारं याति अनेकधा । मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् ॥६६॥
आद्यः विकारः आकाशः सः अस्ति भाति अपि च प्रियः । अवकाशः तस्य रूपं तत् मिथ्या न तु तत् त्रयम् ॥६७॥
न व्यक्तेः पूर्वम् अस्ति एव न पश्चात् च अपि नाशतः । आदौ अन्ते च यत् न अस्ति वर्तमाने अपि तत् तथा ॥६८॥
अव्यक्त आदीनि भूतानि व्यक्त मध्यानि भारत । अव्यक्त निधनानि एव इति आह कृष्णः अर्जुनं प्रति ॥६९॥
मृद्वत् सच्चिदानन्दाः अनुगच्छन्ति सर्वद । निराकाशे सदादीनाम् अनुभूतिः निजात्मनि ॥७०॥
अवकाशे विस्मृते अथ तत्र किं भाति ते वद । शून्यम् एव इति चेत् अस्तु नाम तादृक् विभाति हि ॥७१॥
तादृक्त्वात् एव तत् सत्त्वम् औदासीन्येन तत् सुखम् । आनुकूल्य प्रातिकूल्य हीनं यत् तत् निजं सुखम् ॥७२॥
अनुकूल्ये हर्षधीः स्यात् प्रातिकूल्ये तु दुःखधीः । द्वय अभावे निजानन्दः निजदुःखं न तु क्वचित् ॥७३॥
निजानन्दे स्थिरे हर्ष शोकयोः व्यत्ययः क्षणात् । मनसः क्षणिकत्वेन तयोः मानसतेष्यताम् ॥७४॥
आकाशे अपि एवम् आनन्दः सत्ताभाने तु संमते । वायु आदि देह पर्यन्तं वस्तुषु एवं विभाव्यताम् ॥७५॥
गतिस्पर्शौ वायुरूपं वह्नेः दाहप्रकाशने । जलस्य द्रवता भूमेः काठिन्यं च इति निर्णयः ॥७६॥
असाधारणः आकारः औषधि अन्न वपुषि अपि । एवं विभाव्यं मनसा तत् तत् रूपं यथा उचितम् ॥७७॥
अनेकधा विभिन्नेषु नाम रूपेषु च एकधा । तिष्ठन्ति सच्चिदानन्दा विसंवादः न कस्यचित् ॥७८॥
निस्तत्त्वे नाम रूपे द्वे जन्म नाशयुते च ते । बुद्ध्या ब्रह्मणि वीक्ष्यस्व समुद्रे बुद्बुद आदिवत् ॥७९॥
सच्चिदानन्द रूपे अस्मिन् पूर्णे ब्रह्मणि वीक्षिते । स्वयम् एव अवजानन्ति नाम रूपे शनैः शनैः ॥८०॥