गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरश्छिन्नसूत्रैश्च हारैः नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥११॥
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथः षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैः तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥१२॥
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥१३॥
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तय वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥१४॥
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।
यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥१५॥