शेषान् मासान् विरहदिवसप्रस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
संभोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२६॥
सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥२७॥
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२८॥
पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥२९॥
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनयेत् स्वप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥३०॥