मेघदूत उत्तरमेघा - श्लोक ३१ ते ३५

"मेघदूत" की लोकप्रियता भारतीय साहित्य में प्राचीन काल से ही रही है।


आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।

स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥३१॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् ।

त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥३२॥

जाने सख्यास्तव मयि मनः संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।

वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥३३॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विष्मृतभ्रूविलासम् ।

त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३४॥

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।

संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥३५॥

N/A

References : N/A
Last Updated : March 21, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP