अथातः संप्रवक्ष्यामि प्रासादानां विधानकम । देवो रुद्रस्तथा विष्णुर्ब्रह्माद्यास्सुरसत्तमाः ॥१॥
प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः । गर्तादिलक्षणा धत्री गन्धस्वादेन या भवेत ॥२॥
वर्णेन च सुरश्रेष्ठा सा मही सर्वकामदा । विहामहस्य पुरतः कुलान्यष्टौ तु यानि वै ॥३॥
तारयेदान्मना सार्द्ध विष्णोर्मन्दिकारकः । अपि नः सत्कुले कश्चिद्विष्णुभक्तो भविष्यति ॥४॥
ये ध्यायन्ति सदा भक्त्या करिष्यामो हरोर्गृहम । तेषां विलियते पापं पूर्वजन्मशतोद्भवम ॥५॥
सुरवेश्मनि यावन्तो द्विजेन्द्राः परमाणवः । ताद्वर्षसहस्त्राणि स्वर्गलोके महीयते ॥६॥
प्रासादे मृन्मये पुण्यं मयैतकथितं पुरा । तस्माद्दशगुणं पुण्यं कृते शैलमये भवेत ॥७॥
ततो दशगुणं लौहे ताम्रे शतगुणं तत: । सहस्त्रगुणितं रौप्ये तस्माद्रौक्मे सहस्त्रभम ॥८॥
अनन्तं फलमाप्नोति रत्नचित्रे मनोहरे । कनिष्ठं मध्यमं श्रेष्ठ कारयित्वा हरेगृहम ॥९॥
स्वर्ग च वैष्णवं लोकं मोक्षं च लभते क्रमात । बाल्ये च क्रीडमाना ये पांसुभिर्भवनं हरे ॥१०॥
वासुदेवस्य कुर्वन्ति तेऽपि तल्लोकगामिनः । या भूमिः शस्यते गेहे सा प्रासादविधौ तथा ॥११॥
यो विधिर्गृहनिर्माणे शिलान्यासस्य कर्मणि । प्रासादादिषु संज्ञेयाश्चतस्त्रस्तु शिलास्तथा ॥१२॥
नन्दा भद्रा जया पूर्णा आग्नेयादिषु विन्यसेत । चतुषष्टिपदं वास्तुं प्रासादादिषु विन्यसेत ॥१३॥
ब्रह्मा चतुष्पदो ह्यत्र शेषाः स्वस्वपदे स्थिताः । वास्तुपूजा विधिश्चात्र गृहस्थापनकर्मवत ॥१४॥
सम्पूज्य वास्तुं विधिवच्छिलान्यासं ततश्चरेत । आदावेव समानेन शिलालक्षणमुक्तमम ॥१५॥
शिलान्या पविधानन्तु प्रोच्यतेतदनन्तरम । शिलावाऽपीष्टका वापिचतस्त्रोलक्षणान्विताः ॥१६॥
प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः । चतुरस्त्राः समाः कॄत्वा समन्ताद्धस्तसम्मिताः ॥१७॥
विस्तारस्य त्रिभागेन बाहुल्येन सुसंमिता । शिलानामिष्टकानां च प्रमाणं लक्षणं स्मृतम ॥१८॥
नन्दाद्यधिष्ठिता ज्ञेया शिला वाप्वथवेष्टका । शिला रुपाण्यथो विंद्यान्नन्दाद्याश्चेष्टका: स्मृता: ॥१९॥
संपूर्णाः सुतलाः स्निग्धाः सुसमा लक्षणान्विताः । कुशदूर्वांकिता धन्याः सध्वजच्छत्रचामराः ॥२०॥