सकुशस्तारणोपेता कूर्ममत्स्यफलान्विताः । हस्तिदर्पणवज्रांकाः प्रशस्तद्रव्यलाञ्छिताः ॥२१॥
शस्तपक्षिमृगांकाश्च वृषांकास्सर्वदा हिताः । स्वस्तिका वेदियुक्ता नन्दावर्तांकलाञ्छिताः ॥२२॥
पद्मादिलक्षणोपेताः शिलाः सर्वार्थसिद्धिदाः । तथा गोवाजिपादांगूकाः शिला धन्याः सुखावहाः ॥२३॥
क्रव्यादमृगपादांका न शस्ताः पक्षिणस्तथा । दिग्मुखा बमुदीनाश्च दीर्घा ह्रस्वाः क्षतान्विता: ॥२४॥
विवर्णाः स्फुटिता भग्नाः सन्त्याज्या लक्षणच्युताः । प्रशस्तप्राणिरुपांकाः प्रशस्तद्रव्यलाञ्छिताः ॥२५॥
यथोक्तलक्षणोपेताः शिलाः नित्यं सुखावहाः इष्टकानां समासेन लक्षणं शृणु साम्प्रतम ॥२६॥
एकवर्णाः सुपक्वाश्च बहुजीर्णाश्च वर्जिताः । अप्यंगारान्विता नेष्टाः कृष्णवर्णा सशर्कराः ॥२७॥
भग्नाश्च विभ्रमैर्हीना वर्ज्जनीयाः प्रयत्नतः । सुप्रमाणा रक्तवर्णाश्चतुरस्त्रा मनोरमाः ॥२८॥
नन्दाद्यागृहमानेन अंगलै:परिकल्पिताः । शिलान्यासः प्रकर्तव्यः प्रासादे तु शिलामये ॥२९॥
इष्टकानां तु विन्यास: प्रासादे चेष्टकामये । तस्याः पीठं प्रकुर्वीत तावदेव प्रमाणातः ॥३०॥
आधारनामा तु शिला सुदृढा सुमनोहरा । शैलजे शैलजः पीठश्चैष्टकेचैष्टक: स्मृतः ॥३१॥
शिलान्यासादिको भद्रे मूलपादो विधीयते । गर्तान विधाय कोणेषु चतुर्वेदिसमन्वितान ॥३२॥
तत्रोपरि च शुक्लानां तण्डुलानां च पूरणम। आग्नेयादिक्रमेणैव तासां स्थानानि कल्पयेत ॥३३॥
तत्राधारशिलां न्यस्य स्थिरो भवेति मन्त्रतः । प्रतिष्ठाप्य चतुर्वेव कोणेषु च निधाय च ॥३४॥
तेषां क्रमेण तन्मध्ये कलशं स्थापयेत क्रमात । पद्मश्चैव महापद्मः शंखो मकरकस्तथा ॥३५॥
चत्वारः कलशा ह्येते दिव्या मंत्रेण मंत्रिताः । पल्लवैस्सर्वगन्धैश्च सर्वौषधिभिरन्विताः ॥३६॥
रत्नैः समुद्रजैर्युक्ताश्चष्टधातुभिरन्विताः । पुण्यतीर्थोदकैर्युक्ताः कृत्वोदुम्बरसम्भवाः ॥३७॥
तत्रोपरि न्यसेन्नन्दां सुलग्ने च शुभे दिने । संस्नाप्य पूर्णतोयेनास्त्रायफडिति मन्त्रत: ॥३८॥
पुनः स्नात्वाथ मन्त्रेण समार्ज्य परिपूरयेत । ॐ नन्दायै नमो गन्धाद्युपचारान प्रदापयेत ॥३९॥
गीतावादित्रघोषेण वेदध्वनि युतेन च । प्रागुत्तरशिरस्कां तां स्थापयेत प्रयत: शुचि: ॥४०॥