भागमेक गृहीत्वा तु प्राग्जीवं कल्पयेद्बुधः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।
एतस्यामान्यमुद्दिष्टं प्रासादस्ये ह लक्षणम ॥६१॥
अथान्यच्च प्रवक्षामि प्रासादं लिंगमानतः । लिंगपूजाप्रमाणेन कर्तव्या पिठिका बुधैः ॥६२॥
पीठिकार्द्धेन भागे स्यात्तन्मानेन तु भित्तयः । बाह्यभित्तिप्रमाणेन उत्सेधस्तु भवेत्ततः ॥६३॥
भित्त्युच्छ्रायात्तु द्विगुणः शिखरस्य समुच्छ्रयः । शिखरस्य चतुर्भागाः कर्तव्यास्स्युः प्रदक्षिणा ॥६४॥
प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत । तस्य चार्द्धेन कर्तव्यस्त्व ग्रतो मुखमण्डपः ॥६५॥
प्रासादान्निर्गतो कार्यौ कपोतो गर्भमानतः । उर्ध्वं भित्त्युच्छ्रायो तस्य मञ्जरी तु प्रकल्पयेत ॥६६॥
मञ्जर्या सार्द्धमानेन शुकनासं प्रकल्पयेत । ऊर्द्ध तथार्द्धभागेन वेदीबन्धो भवेदिह ॥६७॥
वेद्याश्चोपरि यच्छेषं कण्ठमामल सारकम । एवं विभज्यं प्रासादं शोभनं कारयेद्बुधः ॥६८॥
अथान्यच्च प्रवक्ष्यामि प्रासादस्येह लक्षणम । गर्भमानेन प्रासाद प्रमाणं श्रृणुत द्विजाः ॥६९॥
विभज्य नवधा गर्भ मध्ये लिंगस्य पिठिका । पादाष्टकं तु रुधिरं पार्श्वतः परिकल्पयेत ॥७०॥
मानेनानेन विस्तारो भित्तीनां तु विधीयते । पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रायो ॥७१॥
स एव शिखरस्यापि द्विगुणः स्यात्समुच्छ्रयः । चतुर्धा तु शिरो भज्य अर्द्धं भागद्वयस्य वा ॥७२॥
शुकनास प्रकुर्वीत तृतीये वेदिका मता । कण्ठमामलसारं च चतुर्थे परिकल्पयेत ॥७३॥
कपोलयोस्तु सहारो द्विगुणोऽस्य विधीयते । शोभनैर्वप्रवल्लीभिरण्डकैश्च विभूषितः ॥७४॥
प्रासादे यस्तृतीयस्तु मया तुभ्यं निवेदितः । सामान्यमपर तद्वत्प्रासादं श्रृणुत द्विजाः ॥७५॥
त्रिभेद कारयेत्क्षेत्रं यत्र तिष्ठन्ति देवताः । रथं कृत्वा तु मानेन बाह्यभागविनिर्गतम ॥७६॥
नेमी पादेन विस्तीर्णा प्रासादस्य समन्तनः । गर्भ तु द्विगुणं कुर्यान्ने मिमानं भिवेदिह ॥७७॥
स एव भित्तीनामुत्सेधो द्विगुणः शिखरो मतः । प्राग्ग्रीव पञ्चभागेन निःश्वासस्तस्य चोच्यते ॥७८॥
कारयेच्छिखरं तद्वत्प्राकारस्य विधानतः । प्राग्ग्रीव तस्य मानेन निष्कांशेन विशेषतः ॥७९॥
कुर्याद्वा पञ्चभागेन प्राग्ग्वीवं कर्णमूलतः । कारयेत्कनकं तत्र गर्भान्ते हारमूलतः ॥८०॥