जयायामुत्तरद्वारं पूर्णायां पूर्वमाविशेत ।
व्याधिहा धनहा चैव वित्तदो बन्धुनाशकृत ॥२१॥
पुत्रहा शत्रुहा स्त्रीघ्रः प्राणहा पिटकप्रदाः ।
सिद्धिदो धनदश्चैव भयकृज्जन्मराशितः ॥२२॥
लग्नस्थक्रमतो राशिर्जन्मलग्नात्प्रवेशने । लग्नं सौम्यान्वितं कार्य न तु क्रूरैः कदाचन ॥२३॥
निन्दिता अपि लग्नांशाश्चरराशिगता यदि । शुभांशसंयुताः कार्याः कर्तृभोपचय स्थिताः ॥२४॥
भूयो यात्रा भवेन्मेषे नाशं कर्कटकेऽपि वा । व्याधिं तुलाधरे लग्ने मकरे धान्यनाशनम ॥२५॥
एतदेवांशकफलं यदि सौम्ययुते क्षितौ । चरांशे चरलग्ने च प्रवेशं नैव कारयेत ॥२६॥
चित्रा शतभिषा स्वाती हस्तः पुष्यः पुनर्वसुः । रोहिणी रेवती मूलं श्रवणोत्तरफाल्गुनी ॥
धनिष्ठा चोत्तराषाढा भाद्रपदात्तरान्विता । अश्विनी मृगशीर्ष च अनुराधा तथैव च ।
वास्तुपूजनमेतेषु नक्षत्रेषु करोति यः । सम्प्राप्नोति नरो लक्ष्मीमिति शास्त्रेषु निश्चयः ॥२७॥
नित्ययाने गृहे जीर्णे प्राशने परिधानके । वधूप्रवेशे मांगल्ये न मौढ्यं गुरुशुक्रयोः ॥२८॥
त्रिकोणकेन्द्रगैः सौम्यैः स्थिरे व्द्यंगे खलग्रहैः । द्विकत्रिकोणदेन्द्राष्टवर्जितैः प्रविशेद्गृहम ॥२९॥
अभिजिच्छ्रवणयोर्मध्ये प्रवेशे सूतिकागृहे । नृपादीनां ब्राह्मणानां नावधेयं कदाचन ॥३०॥
क्रूरयुक्तं क्रूरविद्धं मुक्तं क्रूरग्रहेण च । यद्गन्तव्यं न तच्छस्तं त्रिविधोत्पातदूषितम ॥३१॥
लत्तया निहतं यच्च क्रान्तिसाम्येन दूषितम । प्रवेशे त्रिविधे त्याज्यं ग्रहणेनाभिदूषितम ॥३२॥
यावच्चन्द्रेण भुक्तं तदृक्षे नैव तु शोभनम । जन्मभादृशमं कर्मसांघातर्क्ष तु षोडशम ॥३३॥
अष्टादशं सामुदायं त्रयोविंशं विनाशकम । मानसं पञ्चविं शाख्यं नाचरेदेषु शोभनम ॥३४॥
स्वोच्चसंस्थे गुरौ लग्ने शुक्रे वा वेश्मसंस्थिते । यस्यात्र वेशो भवति तद्गृहं सौख्यसंयुतम ॥३५॥
स्वोच्चस्थलग्नगे सूर्ये चतुर्थे देवपूजिते । यस्यात्र योगो भवति संपदाढ्यं गृहं भवेत ।
गुरौ लग्नेऽस्तगे शुक्रे षष्ठेऽके लाभगे शनौ ॥३६॥ प्रवेशकाले यस्यायं योगः शत्रुविनाशदः ।
लग्ने शुक्रे सुखे जीवे लाभेऽर्के रिपुगे कुजे ॥ वेश्मप्रवेशो योगेऽस्मिन शत्रुनाशकरः परः ॥३७॥
गुरुशुक्रौ च हिबुके लाभगौ कुजभास्करौ । प्रवेशो यस्य भवति तद्गृहं भूतिदायकम ॥३८॥
एकोऽपि जीवज्ञशशिसितानां स्वोच्चगः सुखे । स्वभे वा तद्गॄहं सौख्यदायकं लग्नेऽपि वा ॥
अष्टमस्थे निशानाथे यदि योगशतैरपि ॥३९॥
तदा ते निष्फला ज्ञेया वृक्षा वज्रहता इव । क्षीणचन्द्रोऽऽन्त्यषष्ठाष्टसंस्थितो लग्नस्तथा ॥
भार्याविनाशनं वर्षासौम्ययुक्ते त्रिवर्षतः ॥४०॥