शिंशपावृक्षसंम्भूतः समृद्धिं कुरुते महान । यस्तु पद्मकपर्यंको दीर्घमायुः श्रियं सुतम ।
वित्तं बहुविधं धत्ते शत्रुनाशं तथैव च ॥६१॥
शलः कल्याणदः प्रोक्तः शकेन रचितस्तथा । केवलं चन्दनेनैव निर्मितं रत्नचित्रितम।
सुवर्णगुप्तमध्यास पर्यकं पूज्यते सुरैः ॥६२॥
अनेनैव समायुक्ता शिंशपा तिन्दुकीति च । शुभासनं तथा देवदारुश्रीपर्णिनापि वा ॥
शुभदौ शाकशालौ तु परस्परयुतौ पृथक ॥६३॥
तद्वत्पृथक प्रशस्तौ हि कदंबकहरिद्रकौ । सर्वकाष्ठेन रचितो न शुभः परिकल्पितः ॥
आम्रिण वा प्राणहरश्चासनो दोषदायकः ॥६४॥
अन्येन सहितो ह्येष करोति धनसक्षयम । आम्रोदुंबर्वृक्षाणां चन्दनस्पन्दनाः शुभाः ॥
फलिनां तु विशेषेण फलद शयनासनम ॥६५॥
गजदन्ताश्च सर्वेषां योगे शुभफलाः स्मृताः । प्रशस्तं चन्दनं तेन कार्योऽलंकार एतयोः ।
दन्तस्य भूलपरिधीव्यायतं प्रोह्य कल्पयेत ॥६६॥
शय्याफलकमूले तु चिह्नश्चासनकोणके । न्यूनंकिरिचराणां तु किंचित्किञ्चित्प्रशस्यते ॥६७॥
श्रीवृक्षवर्द्धमानैश्च ध्वजं छत्रं च चामरम । छेदे दृष्टे तु ह्यारोग्यं विजयं धनवृद्धिदम ॥६८॥
प्रहरणाभे जयो ज्ञेयो नन्द्यावर्ते लभेन्महीम । लोष्ठे तु लब्धपूर्वस्य देशस्याप्तिर्भविष्यति ॥६९॥
स्त्रीरुपे अर्थनाशः स्याद्भृंगराजे सुतस्य च । लाभः कुम्भे निधिष्राप्तिर्यात्राविघ्न च दण्डके ॥७०॥
कृकलासभुजंगाभे दुर्भिक्ष वानरेण च । गृध्रोलूकश्येनकाकसदृशो मकरो महान ॥७१॥
पाशे बाधकबन्धे वा मृत्युर्जनविपद्भवेत । रक्तस्नुते च कृष्णे च शावे दुर्गन्धिवान्भवेत ॥७२॥
शुक्लैः समैः सुगन्धैश्च स्निग्धैश्छेदः शुभवहः । अशुभा च शुभा ये च छेदास्ते शयने शुभाः ॥७३॥
ईशादिगोप्रदक्षिण्यात्प्रशस्तमथवा तथा । अपसव्ये दिकत्रये च भयं भवति भूजतम ॥७४॥
एकेन वा विशरणे वैकल्यं पादतः शुभम । द्वाभ्यां न तीर्यते वातं त्रिचतुः क्लेशबन्धदौ ॥७५॥
सुरिरे वा विवर्णे वा ग्रन्थौ पादे शरे तथा । व्याधिः कुम्भेऽथवा पादे ग्रन्थिर्वदनरोगदा ॥७६॥
कुम्भाद्यभागे जंघायां जंघा रोगं तथा भवेत । तस्याश्चाथो पदाधो वा द्रव्यनाशकरः परः ॥७७॥
खुरदेशे यदा ग्रन्थिः खुराणां पीडनं भवेत । राशिशीर्षत्रित्रिभागसंस्थोऽपि न शुभप्रदः ॥७८॥
निष्कुटं चाथ कोलाख्यं घृष्टिनेत्रं च वत्सकम । कोलकं बन्धुकं चैव स्म्क्शःएपश्छिद्रकस्य तु ॥७९॥
घअवत्सुषिरंचैव संकटाख्यं च निष्कुटम । छिद्रनिःपावनीलं च कोलाख्यं तद्बुधैः स्मृतम ॥८०॥