नारद उवाच
पौरोहित्याय भगवान वृतः काव्यः किलासुरैः ।
शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥१॥
तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम ।
पाठ्यामासतुः पाठ्याननयंश्चासुरबालकान ॥२॥
यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु पपाठ च ।
न साधु मनसामेने स्वपरसदग्रहाश्रयम ॥३॥
एकदासुरराट पुत्रमंकमारोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यतेसाधु यद्भवान ॥४॥
प्रह्लाद उवाच
तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्रधियामसदग्रहात ।
हित्वाऽऽत्मपातं गृहमन्धकृपं वनं गतो यद्धरिमाश्रयेत ॥५॥
नारद उवाच
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।
जहास बुद्धीर्बालानांभिद्यते परबुद्धिभिः ॥६॥
सम्यविधर्यतां बालो गुरुगेहे द्विजितीभिः ।
विष्णुपक्षैः प्रतिच्चनैर्न भिद्येतास्य धीर्यथा ॥७॥
गृहमानीतमाहुय प्रह्लादं दैत्ययाजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त समाधिः ॥८॥
वत्स प्रह्लाद भद्र ते सत्य कथय मा मृषा ।
बालनाति कुतस्तुभ्यमेष बुद्धीविपर्ययः ॥९॥
बुद्धीभेदः परकृत उताहो ते स्वतोऽभवत ।
भण्यतांस्रोतुकामानां गुरुणां कुलनन्दन ॥१०॥
प्रह्लाद उवाच
स्वः परचेत्यसदग्राहः पुंसां यन्मायया कृतः ।
विमोहितधियांदृष्टस्तस्मै भग्वते नमः ॥११॥
स यदानुव्रतः पुंसं पशुबुद्धिर्विभिद्यते ।
अन्य एष तथान्योऽहमिति भेदगतासती ॥१२॥
स एष आत्मा स्वपरेत्यबुद्धीभि र्दुरत्ययानुक्रमणो निरुप्यते ।
मुह्यान्ति यद्वर्त्मनि वेदवादिनी ब्रह्मादयो ह्योष भिनत्ति मे मतिम ॥१३॥
यथा भ्राम्यत्ययो ब्रह्मान स्वयमार्षसन्निधौ ।
तथा मेभिद्यते चेतश्चक्रापाणेर्यदृच्छया ॥१४॥
नारद उवाच
एतावद ब्राह्मणायोक्ता विरराम महामतिः ।
तं निर्भर्त्स्याथ कुपितः स दीनो राजसेवकः ॥१५॥
आनीयतामरे वेत्रमस्माकमशस्करः ।
कुलांगरस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥
दैतेयचन्दनवने जातोऽयं कण्टकदुर्मः ।
यन्मुलोन्मुलपरशोर्विष्णोर्नालायितोऽर्भकः ॥१७॥
इति तं विविधोपायैर्भीषंयस्तर्जनादिभिः ।
प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम ॥१८॥
तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम ।
दैत्येन्द्रं दर्शयामास मात्रुमृष्टमलंकृतम ॥१९॥
पादयोः पतितं बालं प्रतिनन्द्यासिषासुरः ।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम ॥२०॥
अरोप्यांकमवघ्राय मुर्धन्यश्रुकलाम्बुभिः ।
आसिचंन विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥
हिरण्यकशिपुरुवाच
प्रह्लादानुच्यतां तत स्वधीतं किंचिदुत्तमम ।
कालेनैतावताऽऽयुष्मन यदशिक्षद गुरोर्भवान ॥२२॥
प्रह्लाद उवाच
श्रवणं कीर्तन विष्णोः स्मरणं पादसेवनम ।
अर्चनंवन्दनं दास्यं सख्यमात्मनिवेदनम ॥२३॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम ॥२४॥
निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥२५॥
ब्रह्माबन्धो किमेतत्ते विपर्क्ष श्रयतासता ।
असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥२६॥
सन्ति ह्यासाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।
तेषामुदेत्यघं काले रोगः पातकिनामिव ॥२७॥
गुरुपुत्र उवाच
न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ।
नैअर्गिकीयं मतिरस्य राजन नियच्छ मन्युः कददाः स्म मा नः ॥२८॥
गुरुणैवं प्रितिपोक्तो भुय आहासुरः सुतम ।
न चेदगुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥२९॥
प्रह्लाद उवाच
मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम ।
अदान्तगोभिर्विशतां तमिस्रम पुनः पुनश्चर्वितचर्वणानाम ॥३०॥
न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः ।
अन्धा यथान्धैरुपणीयमाना वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥३१॥
नैषां मतिस्तावदुरुकरामाघ्रिं स्पृशत्यनर्थपगमो यदर्थः ।
महियसं पादरजोऽभिषेकं निष्कित्र्चनानां न वृणीत यावत ॥३२॥
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपु रुषा ।
अधीकृतात्मा स्वोत्संगन्निरस्यत महीतले ॥३३॥
आहामर्षरुषाविष्टः कषायीभुतलोचनः ।
वध्यतामाश्चयं वध्यो निःसारयत नैऋताः ॥३४॥
अयं मे भ्रातृहा सोऽयं हित्वा स्वान सुहृदोऽधमः ।
पितृव्यवह्न्तुर्यः पादौ विष्णोर्दासवदर्चति ॥३५॥
विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमत्र्जसः ।
सौहृदं दुस्त्यजं पित्रोरहाद्यः पंचहायनः ॥३६॥
परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः ।
छिन्यात्तदंगं यदुतात्मनोऽहितं शेष सुख जीवति यद्विअर्जनात ॥३७॥
सर्वैरुपार्यैर्हन्तव्यः सम्भोजशयनासनैः ।
सुहृल्लिंगधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम ॥३८॥
नैऋतास्ते समादिष्टा भर्त्रा वै शुलपाणयः ।
तिग्मंदंष्ट्रकरालास्यास्ताम्रश्यश्रुरोरुहाः ॥३९॥
नदन्तो भैरवान्नादांश्छिन्धि भिन्धीति वादिनः ।
आसीनं चाहनन शुलैः प्रह्लादंसर्वमर्मसु ॥४०॥
परे ब्रह्माण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मन्यफला आअन्नपुण्यस्येव सत्क्रियाः ॥४१॥
प्रयासेऽपहते तस्मिन दैत्येन्द्रः परिशकिंतः ।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥४२॥
दिग्गर्जैर्दन्दशुकैश्च अभिचारावपातनैः ।
मायाभिः संनिरोधैश्च गरदानैरभोजनैः ॥४३॥
हिमवाय्य्वग्रिसलिलैः पर्वताक्रमणरपि ।
न शाशाक यदा हन्तुमपापमसुरः सुतम ।
चिन्तां दीर्घतमां प्रात्स्तत्कर्तु नाभ्यपद्यत ॥४४॥
एष मे ब्रह्मासाधुक्तो वधोपायाश्च निर्मिताः ।
तैस्तैर्दोर्हैससद्द्भर्मैर्मुक्तः स्वेनैव तेजस ॥४५॥
वर्तमानोऽविदुरे वै बालोऽप्यजडधीरयम ।
न विस्मरति मेऽनार्य शुनः शेप इव प्रभुः ॥४६॥
अप्रमेयानुभावोऽयमकुताश्चिद्भयोऽत्मरः ।
नुनमेतद्विरोधेन मृत्युमें भविता न वा ॥४७॥
इति तंचिन्तया कित्र्चिन्मलानाश्रियमधोमुखम ।
शण्डामर्वावौशनसौ विविक्त इति होचतुः ॥४८॥
जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्णपम ।
न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशुनां गुनदोषयोः पदम ॥४९॥
इमं तु पाशैर्वरुणस्य बद्धवा निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसाऽर्यसेवया यावद गुरुर्भार्गव आगमिष्यति ॥५०॥
तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत ।
धर्मा ह्रास्योपदेष्टव्या राज्ञां ये गृहमेधिनाम ॥५१॥
धर्ममर्थं च कामं च नितरां चानुपुर्वशः ।
प्रह्लादायोचतु राजन प्रश्रितावनताय च ॥५२॥
यथ त्रिवर्गं गुरुभिरात्मने उपशिक्षितम ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम ॥५३॥
यदाऽऽचार्यः परावृत्तो ग्रुहमेधेयकर्मसु ।
वयसयैर्बालकैस्तत्र सोपहुतः कृतक्षणैः ॥५४॥
अथ तान श्लक्ष्णया वचा प्रत्यहूय महाबुधः ।
उवाच विद्वंस्तन्निष्ठांक कृपया प्रहसन्निव ॥५५॥
ते तु तद्गौरवात्सर्वै त्यक्तक्रीडापरिच्छदाः ।
बाला न दुषिताधियो द्वन्द्वरामेरितेहितैः ॥५६॥
पुर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।
तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं सप्तमस्कन्धे प्रह्लादानुचीरते पंचमोऽध्यायः ॥५॥