युधिष्ठिर उवाच
गृहस्थ एतां पदवीं विधिनां येन चात्र्जसाः ।
याति देवऋते ब्रुहि मादृशो गृहमूढधीः ॥१॥
नारद उवाच
गृहेष्ववस्थितो राजन्क्रियाःकुर्वेन्गृहोचिताः ।
वासुदेवार्पणं साक्षादुपासीत महामुनीन ॥२॥
श्रृण्वन्भगवतोऽभीक्ष्नमवतारकथामृतम ।
श्रद्धधानो यथाकालमुपशान्तजनावृतः ॥३॥
सत्संगाच्चनकैःसंगमात्मजायात्मजादिषु ।
विमुच्चेन्मुच्यामानेषु स्वयं स्वप्रवदुत्थितः ॥४॥
यावदर्थमुपासीनो देहे गेहे च पण्डितः ।
विरक्तो रक्तवत तत्र नृलोके नरतां न्यसेत ॥५॥
ज्ञातयः पितरौ पुत्राःभ्रातरः सुहृदोऽपरे ।
यद वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥६॥
दिव्यं भौमं चान्तरिक्षं वित्तमच्युतनिर्मितम ।
तत सर्वमुपभुत्र्चान एतत कुर्यात स्वतो बुधः ॥७॥
यावद भ्रियेत जठरं तावतस्वत्वं हि देहिनाम ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥८॥
मृगोष्ट्रखरमर्कासुखरीसृप्स्खगमक्षिकाः ।
आत्मनः पुत्रवत पश्येतैरेषामन्तरं कियत ॥९॥
त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।
यथादेशं यथाकालं यावद्दैवोपपादितम । \१०॥
आश्वाघान्तेऽवसायिभ्यः कामान्सविभजेद यथा ।
अप्येकामात्मनो दरां नृणा स्वत्वग्रहो यतः ॥११॥
जह्राद यदर्थे स्वाप्राणान्हन्याद वा पितरं गुरुम ।
तसुयां स्वत्त्वं स्त्रियां जहाराद यस्तेन ह्राजितौ जितः ॥१२॥
कुमिविडभस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम ।
क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥१३॥
सिद्धेर्यज्ञावशिष्टार्थैः कल्पयेद वृत्तिमात्मनः ।
शेषे स्वत्त्वं त्यजन्प्राज्ञः पदवीं महतामियात ॥१४॥
देवानृषीन नृभूतानि पितृनात्मानमन्वहम ।
स्ववृत्यागतवित्तेन यजेत पुरुषं पृथक ॥१५॥
यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।
वैतानिकेन विधिना अग्निहोत्रादिना यजेत ॥१६॥
न ह्रागिन्मुखतोऽयं वै भग्वान्सर्वयज्ञभुक ।
इज्येत हविषा राजन्यथा विप्रमुखे हुतैः ॥१७॥
तस्माद ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।
तैस्तैःकामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननुः ॥१८॥
कुर्यादपरक्षीयं मासि प्रौष्ठपदे द्विजः ।
श्राद्धं पित्रोर्यथावित्तं तद्वन्धुनां च वित्तवान ॥१९॥
अयने विषुवे कुर्याद व्यतीपाते दिनक्षये ।
चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च ॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥२१॥
माघे च सितसप्तम्यां मघारकासमागमे ।
राकया चानुमत्या वा मांसर्क्षाणि युतान्यपि ॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्त्र उत्तराः
तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक ॥२३॥
त एते श्रेयसः काला नृणं श्रेयोविवर्धनाः ।
कुर्यात सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥२४॥
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम ।
पितृदेवनृभुतेभ्यो यद दत्तं तद्धनश्वरम ॥२५॥
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।
प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥२६॥
अथ देशान्प्रवक्ष्यमि धर्मादिश्रेयाआवहान ।
स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥२७॥
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम ।
यत्र ह ब्राह्मणकुलं तपोविद्यादयन्वितम ॥२८॥
यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम ।
यत्र गंगादयो नद्यः पुराणेषु च विश्रुता ॥२९॥
सरांसि पुष्करादीनि क्षेत्रण्यर्हाश्रितान्युत ।
कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥३०॥
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥३१॥
नारायणाश्रमो नन्दा सीतारामाश्रमादयाः ।
सर्वे कुलाचाला राजन्महेन्द्रमलयादयः ॥३२॥
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।
एतन्देशान निषेवेत श्रेयस्कामो ह्राभीक्ष्णशः ।
धर्मो ह्रात्रेहितः पुंसां सहस्त्राधिफलोदयः ॥३३॥
पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।
हरिरेवैक उर्वीश यन्मयं वै चराचरम ॥३४॥
देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन्यदग्रपुजायां मतः पात्रतयाच्युतः ॥३५॥
जीवराशिभिराकीर्णाअण्डकोशांघ्रिपो महान ।
तन्मुलत्वादच्युतेज्या सर्वजीवात्मतर्पणम ॥३६॥
पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।
शेते जीवेन रुपेण पुरेषु पुरुषो ह्यासौ ॥३७॥
तेष्वेषु भगवान्राजंस्तारतम्येन वर्तते ।
तस्मत पात्रं हि पुरुषो यावानात्मा यथेयते ॥३८॥
दृष्टा तेषां मिथो नृणामवज्ञानात्मतां नृप ।
त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृपा ॥३९॥
ततोऽर्चायां हरिं केचितं संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुषद्विषाम ॥४०॥
पुरुशेष्वापि राजेन्द्र सुपात्रं ब्राह्मणंविदुः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम ॥४१॥
नन्वस्य ब्राह्मणा राजान्कृष्णस्य जगदात्मनः ।
पुनन्तः पादरजाअ त्रिलोकीं दैवतं महत ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥१४॥