प्रह्लाद उवाच
कौमार आचरेत्प्राज्ञो धर्मान भागवतानिह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम ॥१॥
यथा हि पुरुषस्येह विष्णोः पासोपसर्पणम ।
यदेष सर्वभुतांना प्रिय आत्मेश्वरः सुहृत ॥२॥
सुख मैन्द्रियंक दैत्या देहयोगेन देहिनाम ।
सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥३॥
तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम ।
न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम ॥४॥
ततो यतेत कुशलः क्षेमाय भयमाश्रितः ।
शरीरं पौरुषं यावन्न विपद्येत पुष्कलम ॥५॥
पुंसो वर्षशतं ह्रायस्तदर्धं चाजितात्मनः ।
निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥६॥
मुग्धस्य बाल्यें कौमारे क्रीडतो याति विंशतिः ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशंतिः ॥७॥
दरापुरेण कामेन मोहेन च बलियसा ।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥८॥
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः ।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम ॥९॥
को न्वर्थतृष्णां विसृजेत प्राणेभ्योऽपि ईप्सितः ।
यं क्रीणत्युसुभिः प्रैष्ठैस्तस्करः सेवको वणिक ॥१०॥
कथं प्रियाया अनुकम्पितायः संग रहस्यं रुचिरांश्च मन्त्रान ।
सुहृत्सु च स्नेहसितः शिशुंना कलाक्षराणाम्नुरक्तचित्तः ॥११॥
पुत्रान्स्मरंस्ता दुहितृर्हृदय्या भ्रातृन स्वसृर्वा पितरौ च दीनौ ।
गृहान मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यावर्गान ॥१२॥
त्यतेज कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः ।
औपस्थ्यजैह्वयं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः ॥१३॥
कुटुम्बपोषाय वियन निजायु र्न बुध्यतेऽर्थं विहतं प्रमत्तः ।
सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥१४॥
वित्तेषु नित्याभिनिविष्टचेता विद्वाश्चं दोषं परवित्तहत्तुः ।
प्रत्येक चाथाप्यजितोन्द्रियस्त दशान्तकामो हरते कुटुम्बी ॥१५॥
विद्वानपीत्थं दनुजाः कुटुम्बां पुष्णन्स्वलोकाय न कल्पते वै ।
यः स्वीयपरक्यविभिन्नभाव स्तमः प्रपद्येत यथा विमुढः ॥१६॥
यतो न कश्चित क्व च कुत्राचिद वा दीन स्वमात्मानमलं समर्थः ।
विमोचितु कामदृशां विहार क्रीडामृगो यन्निगाडो विसर्गः ॥१७॥
ततो विदुरत परिहृत्य दैत्या दैत्येषु संग विषयात्मकेषु ।
उप्तेत नारायणमादिदेवं स मुक्तसंगेरिशितोऽपवर्गः ॥१८॥
न ह्राच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।
आत्मत्वात सर्वभुतानां सिद्धत्वादिह सर्वतः ॥१९॥
परावरेषु भुतेषु ब्रह्मान्तस्थावरादिषु ।
भौतिकेषु विकरेषुअ भूतेष्वश महत्सु च ॥२०॥
गुणेषु गुणसाम्यें च गुणव्यतिकरे तथा ।
एक एव परो ह्यात्मा भगवानी श्वरोऽव्ययः ॥२१॥
प्रत्यगात्मस्वरुपेण दृश्यरुपेण च स्वयम ।
व्याप्यव्यापकनिर्देश्यो ह्यानिर्देश्योऽविकल्पितः ॥२२॥
केवलानुभवानन्दस्वरुपः परमेश्वरः ।
माययान्तर्हितैश्वर्य इयते गुणसर्गया ॥२३॥
तस्मात सर्वेषु भुतेषु दयां कुरुत सौहृदम ।
आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥२४॥
तुष्टे च तत्रकिमलभ्यमनन्त आद्ये किं तैग्रुणव्यतिकरादिह ये स्वसिद्धाः ।
धर्मादयः किमगुणेन च काडक्षितेन सारंजुषां चरणयोगरुपगायतां नः ॥२५॥
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥२६॥
ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखःकिल नारदाय ।
एकान्तिनां भगवतस्तदकिंचनानां पादरविन्दरजसाऽऽप्लुतदेहिनां स्यात ॥२७॥
श्रुतमेतन्मया पुर्वं ज्ञानं विज्ञानसंयुतम ।
धर्मं भागवतं शुद्धं नारदाद देवदर्शनात ॥२८॥
दैत्यपुत्रा ऊचुः
प्रह्लाद त्वं वयं चापि नर्तेन्यं विद्याहे गुरुम ।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥२९॥
बालस्यान्तः पुरस्थस्य महत्सगों दुरन्वयः ।
छिन्धिनः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम ॥३०॥
इति श्रीमद्भागवते महापुराणे संहितांया सप्तमस्कन्धे प्रह्लदानुचरिते षष्ठोऽध्यायः ॥६॥