संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
चतुःषष्टितमदशकम्

दशमस्कन्धपरिच्छेदः - चतुःषष्टितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।

विश्र्वेश्र्वरं त्वामभिमत्य विश्र्वे नन्दं भवज्जातकमन्वपृच्छन् ॥१॥

गर्गोदिते निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।

पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावद् बहुमानभारः ॥२॥

ततोऽवमानोतदततत्त्वबोधः सुराधिराजः सहदिव्यगव्यः ।

उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिनां ते ॥३॥

स्नेहस्नुतैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।

ऐरावतोपाहृतादिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥४॥

जगत्त्रयेशे त्वयि गोकुलेशे तथाभिषक्ते सति गोपवाटः ।

नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥५॥

कदाचिदन्तर्यमुने प्रभाते स्नायन् पिता वारुणपूरुषेण ।

नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥६॥

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।

उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥७॥

हरिं विनिश्र्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।

निरीक्ष्य विष्णो परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥८॥

स्फुरत्परानन्दसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।

चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥९॥

करबदरवदेवं देव कुत्रावतारे

परपदमनवाप्यं दर्शितं भक्तिभाजाम् ।

तदिह पशुपरूपी त्वं हि साक्षात् परात्मा

पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥१०॥

॥ इति गोविन्दाभिषेकवर्णनं नन्दानयनवर्णनं च चतुःषष्टितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP