रामेऽथ गोकुलगते प्रमदाप्रसक्ते
हुतानुपेयतयमुनादमने मदान्धे ।
स्वैरं समारमति सेवकवादमूढो
दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥१॥
नारायणोऽहमवतीर्ण इहास्मि भूमौ
धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां
दूतो जगाद सकलैर्हसितः सभायाम् ॥२॥
दूतेऽथ यातवति यादवसैनिकस्त्वं
यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृताङ्कमनल्पमूल्य -
श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥३॥
कालायसं निजसुदर्शनमस्यतोऽस्य
कालानलोत्करकिरण सुदर्शनेन ।
शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥४॥
जाड्येन बालकगिरापि किलाहमेव
श्रीवासुदेव इति रूढमतिश्र्चिरं सः ।
सायुज्यमेव भवदैक्यधिया गतोऽभृत्
को नाम कस्य सुकृतं कथमित्यवेयात् ॥५॥
काशीश्र्वरस्य तनयोऽथ सुदक्षिणाख्यः
शर्वं प्रपूज्य भवते विहिताभिचारः ।
कृत्यानलं कमपि बाणरणातिभीतै -
र्भूतैः कथंचन वृतैः सममभ्यमुञ्चत् ॥६॥
तालप्रमाणचरणामखिलं दहन्तीं
कृत्यां विलोक्य चकितैः कथितोऽपि पौरेः ।
द्यूतोत्सवे किमपि नो चलितो विभो त्वं
पार्श्र्वस्थमाशु विससर्जिथ कालचक्रम् ॥७॥
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
हा हेति विद्रुतवती खलु घोरकृत्या ।
रोषात् सुदक्षिणमदक्षिणचेष्टितं तं
पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥८॥
स खलु द्विविदो रक्षोघाते कृतोपकृतिः पुरा
तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
नरकसचिवो देशक्लेशं सृजन्नगरान्तिके
झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥९॥
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरुणां
यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।
ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥१०॥
॥ इति पौण्ड्रकवधवर्णनं काशीपुरीदाहवर्णनं द्विविदवधवर्णनं लक्ष्मणास्वयंवरं च त्रशीतितमदशकं समाप्तम्॥