अनुष्टुप छंद .
सच्चिदानंदरुपं हि सिद्धारुढयतीश्वरं ।
महावाक्योपदेष्टारं श्रीगुरुं तमहं भजे ॥१॥
यदंघ्रिकमलद्वंद्वं तापत्रयनिवारणं ।
शांतैक्यपददं देवं सिद्धारुढमहं भजे ॥२॥
अहं न जाने त्वत्पादमहिमां करुणाकर ।
भक्तिर्ममास्तु सततं त्वत्पादकमले गुरो ॥३॥
अक्षरं मंगलं नित्यं वाड्मनोतीतमव्ययं ॥
अद्वैतं निर्मल शांतं अचलं शुद्धमीश्वरं ॥४॥
अक्षरं निर्मलं नित्यं वाड्मनोती तमव्ययं ।
अद्वैतं त्रिजगत्पूज्यं अचलं शुद्धमीश्वरं ॥५॥
आर्या .
श्रीशालिवाहनशके गजाष्टशैलेंदुपरिमिते काले ।
आगत्य भ्रूलतिका -नगरं लीलां हि दर्शयामास ॥१॥
संसारजलधिमग्नान सर्वजनानपदिशन्सह च्छात्रैः ॥
ज्ञानप्लवेन सुजनान संसाराब्धेश्व तारयामास ॥२॥
तच्चरितं सुमहभ्दुतमखिलोद्धारार्थमद्य कथयामि ।
दोषा यदि विद्यंसो भूषयंतु गुरुकृपया ॥३॥