दक्षिण प्रयाग माहात्म्यः - तृतीयोऽध्यायः
श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.
सूत उवाच ।
नृसिंहपुरमाहात्म्यं श्रुत्वा देवी मुदान्विता ।
पुनः पप्रच्छ भावेन प्रणम्य गिरिशं सती ॥१॥
देव्युवाच ।
साधु साधु महापुण्यं रहस्यं कथितं त्वया ।
माहात्म्यं पुरवर्यस्य महापापौघनाशनम् ॥२॥
कियत्प्रमाणं तत्क्षेत्रं किमारभ्य भुवं गतं ।
तीर्थान्यत्र कति स्वामिन् सर्वं वर्णय विस्तरात् ॥३॥
श्रीशिव उवाच ।
शिवे साधु महाक्षेत्रमेतद् बुद्धेरगोचरं ।
प्रमाणं यावदाकाशं यावच्चित्तस्य विस्तरः ॥४॥
एतद्नौणमपि प्रायो मुख्यं केचिद् हि मन्वते ।
अन्यानि क्षेत्रजातानि क्षेत्रं प्राहुर्विपश्चितः ॥५॥
लोकानां मूढदृष्टीनां तत्वज्ञाने कुचेतसाम् ।
संसाराब्धिप्लवो दृष्टः क्षेत्रराजोऽयमुत्तमः ॥६॥
पंचक्रोशं हरिपुरं नगरं योजनत्रयं ।
देवालयं योजनार्धं प्रमाणमिति विश्रुतम् ॥७॥
गणराजोंबिका दुर्गा शारदा बहिरास्थिताः ।
क्षेत्रस्यास्य महाविघ्नान् संहर्तुं दिक्षु वै क्रमात् ॥८॥
तदतरायुधान्यस्य दक्षिणोत्तरयोः पृथक् ।
रक्षंति सकलापद्भ्यो महाक्षेत्रमिदं भिये ॥९॥
देवालये सुरगणा मुनयः सिद्धचारणा ।
गंधर्वाप्सरसो नागा यक्षरक्षांसि किन्नराः ॥१०॥
वसवोऽष्टौ तथा रुद्रा आदित्याः समरुन्दणाः ।
अहं ब्रह्मा विश्वरुपो गणेशः सनकादयः ॥११।
देवा अन्ये च शतशो रक्षंति क्षेत्रमुत्तमं ।
निधिं यथा भूतगना उग्रवेषाः समंततः ॥१२॥
एतत्पुरा महाकल्पे ब्रह्मणोंबुजशायिनः ।
अनुग्रहायाविरभूद् दिव्यं भुवि महाद्भुतम् ॥१३॥
देव्युवाच ।
भगवन्ननुग्रहः कृतो ब्रह्मणो हरिणा कथं ।
कथं भुवि गतं तच्च सर्वं विस्तरतो वद ॥१४॥
श्रीशिव उवाच ।
कल्पांते योगशय्याया उत्थिते कमलापतौ ।
सिसृक्षासीत्पुरा तत्र पद्मनाभेरुदाययौ ॥१५॥
तन्मध्ये रजसा युक्तो ब्रह्माभूद् विश्वसृक्पतिः ।
तस्य स्वमूलपद्मस्य मूलेक्षासीदये सति ॥१६॥
स वर्षाणां शतं पश्यन् नालरंध्रेण तत्पदं ।
नाविंददथ संक्लिष्टो भूत्वा पद्मोपरि स्थितः ॥१७॥
तत्र श्रीनृहरिः प्रेम्णा व्योमात्मा गूढमाहतं ।
तपस्तपेति तं मत्वानुग्रहं स तताप ह ॥१८॥
स वर्षशतमेकाग्रसमाधौ परितिष्ठितः ।
तस्येदं दर्शयामास रुपं नारायणो हरिः ॥१९॥
सहस्त्रशीर्षाः पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
सहस्त्रबाहुर्विश्वात्मा लोकान्व्याप्य व्यवस्थितः ॥२०॥
दिव्याभरणशोभाढ्यो दिव्यगंधानुलेपनः ।
दिव्यमाल्यांबरधरो दिव्यायुधविभूषितः ॥२१॥
सर्वलक्षणलक्षण्यः सर्वसौभाग्यशेवधिः ।
सर्वमंत्रमयोदेवः प्राहालं तपसा विधे ॥२२॥
इति पीयूषमधुरां निपीयाब्जभवोगिरं ।
स संजीव इव प्रेम्णा प्रफुल्लवदनांबुजः ॥२३॥
प्रणम्य देवदेवेश्म प्रणतार्तिहरं हरिं ।
अस्तौषीदेकमनसा हरिदर्शनलब्धधीः ॥२४॥
ब्रह्योवाच ॥
नमोऽस्तु लीलामयविग्रहाय स्वरुपदृष्ट्याहतसद्भ्रमाय ।
नमः परानंदपरालयाय स्वभावसंपत्तिमहोदयाय ॥२५॥
नमो गुणानां पतये महिम्ने विकारधाम्नेऽखिलकारणाय ।
नमो जगद्भासयते गरिम्णे सते चिदात्माकृतये गुणाय ॥२६॥
त्वमादिरस्यासि निदानमध्य्म विश्वाकृतिस्त्वं प्रलयो विभुस्त्वं ।
त्व्म सर्वयोनिस्त्वसर्वयोनिस्त्वं सर्वशोऽसित्वमसर्वशश्च ॥२७॥
नम्ह पुरस्तादथ पार्श्वयोस्ते पश्चान्नमोंतर्बहिरीश्वराय ।
पूर्णाद्वितीयाय नमः पराय अणीयसेऽनंतचिदे परस्मै ॥२८॥
व्नेः स्फुलिंगा इव वारिंभंगाः सिंधोरिवौघा इव वासनानां ।
भवंति तिष्ठंति वियंति यत्र ब्रह्मांडसंघास्तमजं प्रपद्ये ॥२९॥
यदीक्षया जनिरस्याप्रमेयो विभुर्नृसिंहो वरदो ममास्तु ।
योनाहमस्मिन् विविधेऽत्रसगें संप्रेरितः कालविनष्टदृष्टीः ॥३०॥
यस्यादेशात् सर्गकर्मप्रवृत्तो भूत्वाप्यहं कालसंमूढचेताः ।
स पुण्यवाचा मम सृष्टिमेतामलंकरोतु प्रभविष्णुरीशः ॥३१॥
इहैव लोको ह्यसमीक्ष्य बद्धो मायागुणैः कामयते नु कामान् ।
यच्छन्नमुष्मै य इहाप्रमेयो हरत्यनंतो निमिषं प्रसीद ॥३२॥
नमो नियंत्रे नियमालयाय नमो जगन्मोहतमोरुणाय ।
नमो नृसिंहाय विलासधाम्ने नमः शिवायमितविक्रमाय ॥३३॥
नमो मनोदूरचराय वाचां बाचामनिर्देश्यपदाय भूम्ने ।
नमः स्वभासाखिलभासकाय प्रमाणमात्रे जगदीश्वराय ॥३४॥
श्रीशिव उवाच ।
इति स्तुत्वा यथाप्रज्ञमजमात्मानमीश्वरं ।
तूष्णूं बभूव विश्रांत इव स्वे मनसीश्वरः ॥३५॥
ततः प्रसादमधुरस्मितपीयूषसन्मुखः ।
प्राह देवेश्वरी वाचा जीवयन्निगमानिव ॥३६॥
श्रीभगवानुवाच ।
अब्जयोने प्रसन्नोऽहं वरं वरय सुव्रत ।
आदेशान्मम यत्पूर्वं तपस्तप्तं त्वया खलु ॥३७॥
सर्वत्र मद्भावनया दूरयस्व रजो महत् ।
अहमेवाखिलं वस्तु सदसत्परमव्ययम् ॥३८॥
भूतं भव्यं भवच्चान्यन्नमत्तोऽस्ति चराचरं ।
मय्येव मन आधत्स्व रजोगुणनिवृत्तये ॥३९॥
यदात्मनि न निर्भातमाभाति च निरर्थंकम् ।
तत्तमो बिंबवन्मायां जानीहि हीनदर्शनं ॥४०॥
मदात्मा मद्विकारस्त्वं मत्कर्मा मदवस्थितिः ।
मयात्मना सृजन् सर्वमपि नो लिप्यसे गुणैः ॥४१॥
सिद्धं सर्वेश्वर त्वत्तः सर्वं मे यदभीप्सितं ।
कामद्रुममवाप्याहो कः शोचेत हि पंडितः ॥४२॥
तथापि याचे ह भवतः शासनेन महेश्वर ।
स्थातव्यं भुवि देवेश रुपेणानेन सर्वग ॥४३॥
ये मूढा ये दुराचारा ये च कामहता नराः ।
तेषां मदान्धमनसां प्रसादं कर्तुमर्हसि ॥४४॥
श्रीभगवानुवाच ।
विधेद्यारभ्य तिष्ठामि भुवि लोकहितंकरः ।
श्रवणाद्दर्शनाध्यानात्कायवाङ्मनसाघह्रत् ॥४५॥
जंबुद्वीपे भारतेऽहं गोदाकृष्णांतरावनौ ।
तिष्ठामि शंभुना सार्धमेकरुपः सतां गतिः ॥४६॥
नृसिंहनामा जीवानां बंधहा वरदेश्वर ।
स्थास्यामि दृश्यादृश्यात्मा नानाशक्तिभिरादरात् ॥४७॥
तवानुग्रहकामाय लोकानां हितमीप्सया ।
स्थितोऽपि पापैर्दुर्लभ्यः प्रायशोऽहं प्रजाधिप ॥४८॥
तथापि पूर्वदत्तं ते वचनं कर्तुमिच्छया ।
नीराभीमाबुकल्लोले विहरामि सुरेश्वर ॥४९॥
ततः प्रल्हादनामाग्रे दैत्यपुत्रो भविष्यति ।
स नारद वचसा करिष्यति तपो महत् ॥५०॥
तत्तपस्तुष्ठ आराद्वि नीराभीमांबुसंगमात् ।
स्थास्ये प्रत्यङमुखो ब्रह्मन् द्विभजः सिद्धिभूषणः ॥५१॥
ततो मां भुवि सल्लोका भजिष्यंति सुसिद्धये ।
अष्टाक्षरमनुप्रोक्तं प्रजापनवराभयम् ॥५२॥
सर्वेषामिहभूतानां भजतां मामनारतं ।
ददामि विपुलान् भोगानंते कैवल्यमद्भुतम् ॥५३॥
श्रीशिव उवाच ।
इत्युक्त्वा भगवान् विष्णुः प्रणतो ब्रह्मणार्चितः ।
अंतर्धायात्मनोरुपं भुवि प्रादुर्भवं गतः ॥५४॥
इमं प्रादुर्भवाध्यायं यः श्रोष्यति पठिष्यति ।
सर्वान् कामानवाप्नोति प्रसादन्नृहरेहरेस्तु सः ॥५५॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे श्रीनृसिंहप्रादुर्भावो नाम तृयीयोऽध्यायः ।
N/A
References : N/A
Last Updated : March 23, 2011
TOP