दक्षिण प्रयाग माहात्म्यः - द्वादशोऽध्यायः
श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.
देव्युवाच ।
श्रुतोऽयं निर्णयो देव यात्रायाः परमोत्सवः ।
मंगलानां नरो यस्मिन् प्राप्यते लीलया पदम् ॥१॥
इदानीं श्रोतुमिच्छामि हरेः पूजाविधिं परं ।
येनासौ पूजितस्तुष्टो ददात्यात्मानमीश्वरः ॥२॥
श्रीशिव उवाच ।
देविं पूजाविधेरस्यानंतरस्यांतो न विद्यते ।
सर्वार्थैकभुजस्यास्य सर्वेप्रत्ययसाक्षिणः ॥३॥
तथापि हितकामायास्तव प्रेम्णा नृणां प्रिये ।
वदामि सूत्रतो देवि पूजाक्रममनुत्तमम् ॥४॥
त्रिविधो योग ईशस्य वैदिको मिश्रतांत्रिकौ ।
अधिकारविभेदेन कथितो हरिणा मम ॥५॥
वेदप्रयोगतो वेद्यस्तांत्रिकस्तंत्रशासनात् ।
उभयनुष्ठितो मिश्र इति जानीहि तत्वतः ॥६॥
एतेष्वेकेन नृहरिं मंत्रजाजैर्यजन्नरः ।
प्राप्नोति निखिलां सिद्धिमभीष्तामात्मदेश्वरात् ॥७॥
प्रतिमायां जले वायौ वन्हौं ह्रदि तथा प्रिये ।
आकाशे स्वात्मनि प्रेम्ना यजेन्तृहरिं पुमान् ॥८॥
स्वात्मन्यात्मतयात्मानमाकाशे वियदात्मना ।
तत्ततोषेण लोकेषु सर्वांतर्यामिनिष्ठया ॥९॥
ह्रदिभावार्पणैरग्नौ हविषा चेष्टयानिले ।
जले जलोपचारेण पूजयेन्नृहरिं मुदा ॥१०॥
प्रतिमा सैकती लेप्या लेख्या दार्वी शिलामयी ।
मणिरुपा धातुमयी पार्थिवेतीयम्ष्टधा ॥११॥
एतास्वावाहनोद्वासा उक्तौ पूजाविधिं श्रुणु ।
लेख्यालेप्यापार्थिवासु सस्नानं मार्जनं प्रिये ॥१२॥
न गंधलेपो लेख्यायामन्यः साधारणो विधिः ।
एष जंगमरुपासु कथितस्तत्वतो विधिः ॥१३॥
स्थावरासु न चार्चासु विसर्गावाहन प्रिये ।
पूर्वमेव प्रतिष्ठा हि जाता देवस्य पार्वति ॥१४॥
चरास्वपि च शैलासु शालग्रामादिषु स्फुटं ।
हरेर्मम गणेशस्य तव साध्व्यास्तथैव भोः ॥१५॥
अत्रैव भक्तराजेन स्थावरामूर्तिस्थापनं ।
कृतं पूजाविधानेन तन्मे निगदतः श्रुणु ॥१६॥
प्रातः शौचं विधायादौं दंतानाशोध्य मंत्रवान् ।
स्नायान्मृदादिभिः सर्वैर्मंत्रैर्वारुणवैष्णवैः ॥१७॥
वाससी परिधायाथ कृतसंध्यादि सक्रियः ।
समुखः स्वस्थ आसीत पूजाभारैः सूसंभृतैः ॥१८॥
प्रिये कृत्वा न्यासविधिं प्राणानायम्य वाग्यतः ।
शोधयेद् वायुतेजोभ्यां पिंडं पीयूषजीवनम् ॥१९॥
ह्रत्पद्मकर्णिकामध्यं ह्रदयाकाशबंधुरं ।
नादांते भावयेदीशं ज्योतिरुपमखंडितम् ॥२०॥
तेन संयुक्तह्रदयो निर्मलो गगनोपमः ।
सर्वदेवाधिरुपां तां मूर्ति ध्यायेद् परमात्मनं ।
शनैरग्रस्थितां मूर्तिचर्ययेद् विधिपूर्वकम् ॥२२॥
मूलेन मंत्रराजेन व्यूहे षोडशशक्तिभिः ।
युक्तं यजेन्नृहरिं पीठार्चनविधानतः ॥२३॥
महाचक्रक्रमेणास्य कुर्यादावणानि वै ।
ब्रह्माविष्णुशिवादीनां मंत्रराजात्मकानि च ॥२४॥
प्रत्येकावरणे श्रीशं योगपीठस्थितं हरिं ।
पूजयेत्पर या भक्त्या मोक्षसाधनलिप्सया ॥२५॥
पाद्यार्ध्याचमनस्नानवस्त्रसूत्रविभूषणैः ।
गंधमाल्यादिभिर्धूपैर्नैवेद्यएः षड्रसैः सह ॥२६॥
फलतांबूलभोगाघैर्गीतैः स्तोत्रैः सुमंगलैः ।
तौर्यंत्रिकैः पुराणाख्याज्ञानादेशैरनेकशः ॥२७॥
छत्रचामरकैर्यानैर्व्यजनैर्दणादिभिः ।
नानोपहारबलिभिः सामनीराजनादिभिः ॥२८॥
अन्यैर्महोपचारैश्च नानाविभवविस्तरैः ।
प्रदक्षिणभिर्नभिश्चार्थर्थयित्वा क्षमां गुरुं ॥२९॥
पुष्पांजलिं समर्प्यांते शेषं देवाज्ञया मुदा ।
द्विजातिभ्यो विभज्याथ गृहणीयान्मोक्षसिद्धये ॥३०॥
देवानग्निं विप्रांश्च पूजयेद्यः समाहितं ।
सर्वान्कामानवाप्नोति कैवल्यमपि वै पुमान् ॥३१॥
देवाग्रे पुष्पवाटीं यो कुरुते भक्तियो नरः ।
यावत्पुष्पदलाग्राणि तावत्कल्पं स नाकभाक् ॥३२॥
देवपूजासु निर्वाहवृत्तिं यः कल्पयेत् सुधीः ।
दिने दिनेऽश्वमेधस्य फलं तस्य न संशयः ॥३३॥
जीर्णोद्धारेण सर्वेष्टं प्राप्य भोगान् प्रतिष्ठया ।
अर्चयाप्नोति वैकुंठ त्रयेणाप्नोति सद्नातिम् ॥३४॥
यस्तु वै द्विजवर्याणां वृत्तिं नाशयते कुधीः ।
यावल्लोमानि देहेऽस्य तावत्कल्पं स नारके ॥३५॥
इति ते सर्वमाख्यातं गुह्यं यन्मोक्षसाधनं ।
नृहरेः पुरमाहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥३६॥
देव्युवाच ।
स्वामिन्महोत्तमं क्षेत्र् नृहरेः पदभूषितं ।
एतन्माहात्म्यमाकर्ण्य धीर्में पुष्टि परां गता ॥३७॥
अत्र स्थेयं भगवता मयासह हितेच्छया ।
जनानां पुण्यकामानां र्मांर्ग दर्शयता गुरो ॥३८॥
श्रीशिव उवाच ।
शिवे जानीहि नृहरौ त्रयो देवा वयं सदा ।
निवसामो जनानां हि हितार्थाय न संशयः ॥३९॥
अत्र मां वा विधिं विष्णुं भेददृष्ट्याभिमन्वते ।
तेषां कल्पशतेनापि न सिद्धिः पारमार्थिकी ॥४०॥
देहाकारो भवेद्ब्रह्मा नाममात्रो हरिःस्वयं ।
पूजाभिमानी रुदो हि त्रयमात्मैव केवलम् ॥४१॥
एतन्मतं जे जानन्ति सनकाद्या महर्षयः ।
मरीच्याद्याश्च मनवो लोकपालाः खगेश्वरः ॥४२॥
गंधर्वाप्सरसो नागाः प्रल्हादाद्यास्तथासुराः ।
किं देवाः किन्नरा यक्षा रक्षः किं पुरुषोदयः ॥४३॥
सर्वे स्वलाभसंतुष्टा अंते यास्यंति सद्नतिं ।
मुक्ता वै बहवः सिद्धा एतेनैव मतेन मे ॥४४॥
य एतदवजानंति मूढा देहात्ममानिनः ।
न भवेन्मुक्तता तेषां त्रिषु कालेष्वपि प्रिये ॥४५॥
अथापि रुपत्रयवानग्रे देवस्य पार्श्वयोः ।
त्वया तिष्ठामि मध्ये च सर्वेषां सुखहेतवे ॥४६॥
एतत्पुण्यतमाख्यानं प्रयतः श्रुणुयात्पठेत् ।
सर्वान् भोगवरान् भुक्त्या प्रांते नृहरिमाप्नुयात् ॥४७॥
सर्वदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलं ।
सर्वपूजासु यत्प्रोक्तं प्राप्नुयादस्य कीर्तनात् ॥४८॥
सूत उवाच ।
एवमुक्त्वा शिवो गौरीं प्रेम्णालिंग्य मुदायुतां ।
उदरे नृहरेर्मूर्तेः प्रविवेश दयोदधेः ॥४९।
एवं भोः कथितं गुह्यमितिहासेन सत्तमाः ।
नृणां निःश्रेयसार्थाय सर्वकामौघसिद्धये ॥५०॥
एतत्पुण्यतमाख्यानं व्यासेन परिकीर्तितं ।
ज्ञानवैराग्ययुक्ताय पुत्राय शुकाय वै ॥५१॥
श्रुणुयात् कीर्तयेद् यो वा नृसिंहपुरवर्णनं ।
दयार्णवस्य नृहरेः सायुज्यपदमर्हति ॥५२॥
व्यास उवाच ।
इति सूतात्समाकर्ण्य माहात्म्यं पुरसंभवं ।
प्रशंसंतो मुदायुक्तास्तं प्रणम्य ययुर्गृहान् ॥५३॥
नृसिंहपुरमाहात्म्यं शृणोति पठतीह यः ।
किं तस्यान्येन पुण्येन मुक्तोऽसौ भवबंधनात् ॥५४॥
किमत्र बहुनोक्तेन वर्तमानोऽपि सर्वदा ।
न लिपंति दुःखलेशेन स नरो नात्र संशय ॥५५॥
इति श्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वती संवादे हरिपूजाविधिर्नाम द्वादशोऽध्यायः ।
ॐ तत्सत् ।
N/A
References : N/A
Last Updated : March 23, 2011
TOP