दक्षिण प्रयाग माहात्म्यः - सप्तमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


देव्युवाच ।
पिशाचमोचनाख्यातं श्रुतं परमद्भुतं ।
इदानी श्रोतुमिच्छामि स्तुति पैशानमोचिनीम्‌ ॥१॥
हरिः कस्मादिमां पुण्या कृतवान्‍ स्तुतिमुत्तमां ।
त्‌वर्णय महादेव यया बंधाद्‌ विमुच्यते ॥२॥

श्रीशिव उवाच ।
पुरा कल्पादिसमये विष्णुर्नाभेरभूदजः ।
चतुर्यसहस्त्रांते तस्य निद्रामुपेयुषः ॥३॥
विष्णुकर्णमलोद्भूतौ संजातौ मधुकैटभौ ।
ताभ्यामुपाह्रताः सर्वे वेदा विश्वस्य साधनं ॥४॥
काले सिसृक्षात्तावद्‌ वेदा अस्मरणं गताः ।
ततः पिशाचवज्जज्ञे ब्रह्मा दानवभीतितः ॥५॥
तस्य नारायणोऽनंतो दिदेश स्तोत्रमुत्तमं ।
ब्रह्मणः पुरतो स्थित्वा मंत्रराजात्मकं शिवम्‌  ॥६॥
तेन प्रबुद्धो भगवान‌ ब्रह्मा लोकपितामहः ।
अस्मरद्वेदमखिलं ज्ञानं यत्पौर्वकालिकम्‍ ॥७॥
तदहंतेऽभिघास्यामि नारायणवरदिदं ।
श्रुतं ब्रह्मममुखाद्देवि सर्वार्थानां प्रसादकं ॥८॥
विशुद्धमजमानंदमेकमात्रमखंडितं ।
सच्चिन्मात्रं परं शातं यत्तद्‌ ब्रह्म नमाम्यहम्‍ ॥९॥
यद्भासा निखिलं भाति यस्यनान्यत्प्रकाशकं ।
पुराणमव्ययं ज्योति तद्धि ब्रह्म नमाम्यहम्‌ ॥१०॥
यदेकं सर्वरुपेषु प्रतिरुपतया स्थितं ।
ज्योतिर्यथोदपात्रेषु तद्धि ब्रह्म नमाम्यहम्‍ ॥११॥
यदंतः सर्वभूतानां यत्तद्रूपबाधितं ।
हेमेवाभरणादीनां तद्भि ब्रह्म नमाम्यहम्‌  ॥१२॥
यदेकं सर्वभावानां निरंतरमदूषितम्‌  ।
चिन्मात्रं निष्फलं पूर्णं तद्भि ब्रह्म नमाम्यहम्‍ ॥१३॥
येनार्थान्‍ भजते जंतुरिंद्रियेषु मनस्यापि ।
निरहंकारमानंदं तद्भि ब्रह्म नमाम्यहम्‌ ॥१४॥
यन्मनो मनसां प्राणः प्राणनामिद्रियं वरं ।
सर्वात्मकमखंडं सत्तद्धि ब्रह्म नमाम्यहम्‌ ॥१५॥
यन्नामगुणरुपाघैर्विचित्रमपि सर्वगं ।
अज्ञेयं पशुबुद्धीनां तद्धि ब्रह्म नमाम्यहम्‍ ॥१७॥
यतो वागादयो भावा उत्थिताः स्वस्वकर्मसु ।
प्रवर्तंते साक्षिरुपात्तद्धि ब्रह्म नमाम्यहम्‌  ॥१८॥
सकलं निष्कलं व्योम मायातीतं निरंजनं ।
अस्ति नास्ति द्वयातीतं तद्धि ब्रह्म नमाम्यहम्‍ ॥१९॥
यद्‌ ग्रासकं ग्रासकाणां वीराणां च विवर्धनं ।
व्यापकं व्यापकानां च तद्धि ब्रह्म नमाम्यहम्‍ ॥२०॥
यज्ज्वालातमोरुपं कालाद्यांस्तमो येन प्रकाशते ।
महाज्वालातमोरुपं तद्धि ब्रह्म नमाम्यहम्‍ ॥२१॥
यत्सर्वतो वदनत्सर्वतः करपाच्छिरः ।
सर्वतो नयनं श्रोत्रं तद्धि ब्रह्म नमाम्यहम्‍ ॥२२॥
यद्विचारवतां नृणां बंधोऽनादितमोभवः ।
सद्यो नश्यति शारीरस्तद्धि ब्रह्म नमाम्यहम्‍ ॥२३॥
यस्याज्ञयानिलार्केंकुर्मृत्युवन्हिग्रहादयः ।
सर्वे कर्मसु वर्तंते तद्धि ब्रह्म नमाम्यहम्‌ ॥२४॥
यन्नाम मंगलतमं मंगलानामतुत्तमं ।
स्तुतिभिस्तूयते वेदैस्तद्धि ब्रह्म नमाम्यहम ॥२५॥
यस्यात्मत्तां विदां मृत्युरनादिर्म्रियतेक्षणात्‌  ।
मृत्युमारणमापूर्णं तद्धि ब्रह्म नमाम्यहम्‌ ॥२७॥
पूर्णमंतर्बहिः पूर्णं येन पूर्णेन पूर्यते ।
पूर्णस्य पूर्णमाकाशं त्तद्धि ब्रह्म नमाम्यहम्‍ ॥२८॥
एतद्देवि महास्तोत्रं महापैशाचमोचनं ।
यत्र कुत्र स्मरन्‌ जंतुर्ब्रह्मसायुज्यमश्नुते ॥२९॥
कैवल्याद्यखिलार्थानामिदमेवेहकारणं ।
नृहरेर्मंत्रराजस्य स्तोत्रं पैशाचमोचनम्‍ ॥३०॥
एतत्पठणतो याति मुक्तिमात्यंतिकीं नरः ।
किं पुनः सर्वभोगाद्यांस्तुच्छा‌ दीनेषुसंमतान्‍ ॥३१॥
एतत्प्रसंगतः प्रोक्तं स्तोत्रं तेऽभीष्टसिद्धिदं ।
अधुना श्रुणु वक्ष्याभि शेषतीर्थानि सूत्रतः ॥३२॥
पिशाचमोचनात्पश्चात्तीर्थं गारुडसंज्ञितं ।
गरुडेन तपस्तप्त्वा यत्र लब्धं महद्वलम्‍ ॥३३॥
जित्वामरेश्वरं संख्ये सुधां ह्रत्वा बलात्ततः ।
विमुच्च मातरं दास्याद्‌ विनतामजितोऽभवत्‍ ॥३४॥
तोषयित्वा रणे विष्णुं तेनायं याचितो मुदा ।
वाहनंत्व गतो जग्घ्वा पन्नगान्कोटिशोऽभितः ॥३५॥
तत्तीर्थे स्नानदानेन सर्ववेदसमुद्भवं ।
पुण्यं प्रोप्नोति कल्याणि यत्र कुत्र मृतोऽपि सः ॥३६॥
ततोनृसिंहतीर्थं वे क्रोशमात्रं वरानने ।
हिरण्यकशिपुं हत्वा यत्र देवो व्यवस्थितः ॥३७॥
तत्तीर्थस्य प्रभावो हि मया वक्तुं न शक्यते ।
सर्वांर्थदं मोक्षबीजं तीर्थं तत्परमं प्रिये ॥३८॥
श्रीमन्नृसिंहः संपूज्यो भक्तविघ्नौघनाशनः ।
नानोपहारैः क्षेत्रस्य महाभीत्युपशांतये ॥३९॥
एतानि तीर्थमुख्यानि वामे देवस्य चाग्रतः ।
एकैकस्मिन्‌ वसन्तीह कोटिसस्तीर्थराशयः ॥४०॥
इंद्रतीर्थं ततःपुण्यमन्वितं कोटितीर्थकैः ।
हरिर्नायासतो यत्र ररक्षेंद्रं हि पातकात्‍ ॥४१॥
श्वेततीर्थं च तस्याग्रे हंसतीर्थं वदंत्यदः ।
हंसावतारो भगवान्‍ यत्र ज्ञानमदीदिशत्‍ ॥४२॥
तस्यैव परितः सन्ति तीर्थानि सनकादिभिः ।
कृतानि योगिभिः पुण्यान्ययुतानि चतुर्दश ॥४३॥
मरीचरत्रिः पुलहो वसिष्ठः क्रतुंरंगिराः ।
पुलस्त्यो देवलः सोमो दक्षो गीष्पतिरत्रिजः ॥४४॥
वरुणो धनदो वायुर्यमोऽग्निर्निऋतिर्वसुः ।
स्वनाम्ना तीर्थमुख्यानि कृत्वा सिद्धिं परां गताः ॥४५॥
सर्वतीर्थं ततः पुण्यं तीर्थैर्यत्र तपः कृतं ।
नृहरेरर्चनात्प्राप्तं पापघ्नं पुण्यदं बलम्‌ ॥४६॥
तारातीर्थं महापुण्यं यत्रतारा तपःस्थिता ।
रघुवीरप्रसादेन गता ज्ञानमखंडितम्‍ ॥४७॥
दुर्वासतीर्थमतुलं कपिलस्यच योगिनः ।
यत्रैकाक्षरजाप्येन गतावात्यंतिकीं गतिम्‍ ॥४८॥
एतान्यंतरतो नीराभीमयोः क्षेत्रमध्यतः ।
तीर्थान्यन्यानि च कलौ प्रवक्ष्यंत्यन्यनामभिः ॥४९॥
भीमामध्ये च तीर्थान्यधुना ते ब्रवीम्यहं ।
एषां नामानि संस्मृत्य महापापैः प्रमुच्यते ॥५०॥
इति श्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वती संवादे तीर्थमहिमावर्णनं नाम सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP