रूपरसगन्धस्पर्शवती पृथिवी ॥१॥
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः ॥२॥
तेजो रूपस्पर्शवत् ॥३॥
स्पर्शवान् वायुः ॥४॥
त आकाशे न विद्यन्ते ॥५॥
सर्पिर्जतुमधूच्छिष्टानां अग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् ॥६॥
त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् ॥७॥
विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् ॥८॥
स्पर्शश्च वायोः ॥९॥
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः ॥१०॥
अद्रव्यवत्त्वेन द्रव्यम् ॥११॥
क्रियावत्त्वात् गुणवत्त्वाच्च ॥१२॥
अद्रव्यत्वेन नित्यत्वमुक्तम् ॥१३॥
वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् ॥१४॥
वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते ॥१५॥
सामान्यतो दृष्टाच्चाविशेषः ॥१६॥
तस्मादागमिकम् ॥१७॥
संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् ॥१८॥
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥१९॥
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ॥२०॥
तदलिङ्गमेकद्रव्यत्वात् कर्मणः ॥२१॥
कारणान्तरानुकिप्ति वैधर्म्याच्च ॥२२॥
संयोगादभावः कर्मणः ॥२३॥
कारणगुणपूर्वकः कार्यगुणो दृष्टः ॥२४॥
कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः ॥२५॥
परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः ॥२६॥
परिशेषाल्लिङ्गमाकाशस्य ॥२७॥
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥२८॥
तत्त्वम्भावेन ॥२९॥
शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च ॥३०॥
तदनुविधानादेकपृथक्त्वञ्चेति ॥३१॥