पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् ॥१॥
व्यवस्थितः पृथिव्यां गन्धः ॥२॥
एतेनोष्णता व्याख्याता ॥३॥
तेजस उष्णता ॥४॥
अप्सु शीतता ॥५॥
अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि ॥६॥
द्रव्यत्व नित्यत्वे वायुना व्याख्याते ॥७॥
तत्त्वम्भावेन ॥८॥
नित्योष्वभावादनित्येषु भावात् कारणे कालाख्येति ॥९॥
इत इदमिति यतस्तद्दिश्यं लिङ्गम् ॥१०॥
द्रव्यत्व नित्यत्वे वायुना व्याख्याते ॥११॥
तत्त्वम्भावेन ॥१२॥
कार्यविशेषेण नानात्वम् ॥१३॥
आदित्यसंयोगात् भूतपूर्वात् भविष्यतो भूताच्च प्राची ॥१४॥
तथा दक्षिणा प्रतीची उदीची च ॥१५॥
एतेन दिगन्तरालानि व्याख्यातानि ॥१६॥
सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः ॥१७॥
दृष्टञ्च दृष्टवत् ॥१८॥
यथादृष्टमयथादृष्टत्वाच्च ॥१९॥
विद्याविद्यातश्च संशयः ॥२०॥
श्रोत्रग्रहणो योर्ऽथः स शब्दः ॥२१॥
तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् ॥२२॥
एकद्रव्यत्वान्न द्रव्यम् ॥२३॥
नापि कर्माचाक्षुषत्वात् ॥२४॥
गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम् ॥२५॥
सतो लिङ्गाभावात् ॥२६॥
नित्यवैधर्म्यात् ॥२७॥
अनित्यश्चायं कारणतः ॥२८॥
ज चासिद्धं विकारात् ॥२९॥
अभिव्यक्तौ दोषात् ॥३०॥
संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः ॥३१॥
लिङ्गाच्चानित्यः शब्दः ॥३२॥
द्वयोस्तु प्रवृत्त्योरभावात् ॥३३॥
प्रथमाशब्दात् ॥३४॥
सम्प्रतिपत्तिभावाच्च ॥३५॥
सन्दिग्धाः सति बहुत्वे ॥३६॥
संख्याभावः सामान्यतः ॥३७॥