रसहृदयतंत्र - अध्याय ८

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायां ।
कृष्णां रक्तां पीतां सितां तथा संकरैर्मिश्रां ॥१॥
कृष्णाभ्रकेण बलवदसितरागैर्युज्यते रसेन्द्रस्तु ।
श्वेतै रक्तैः पीतैर्वह्नेः खलु वर्णतो ज्ञेयः ॥२॥
अथ निजकर्मे वर्णं न जहाति यदा स रज्यते रागैः ।
क्रमशो हि वक्ष्यमाणैर्निर्णिक्तो रंजनं कुरुते ॥३॥
बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलोहे सारकमथ नागवंगाभ्यां ॥४॥
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते क्षणाद्ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान्गृह्णाति तीक्ष्णेन ॥५॥
(तीक्ष्णलोहः: चारण, जारण) तदपि च दरदेन हतं कृत्वा माक्षिकेण रविसहितं ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥६॥
(रञ्जनः: ) कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनां ।
एकतमं सर्वं वा रसरंजने संकरोऽभीष्टः ॥७॥
कुटिले बलमभ्यधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले शंसन्ति धातुविदः ॥८॥
सर्वैरेभिर्लोहैर्माक्षिकनिहतैस्तथा द्रुतैर्गर्भे ।
विडयोगेन तु जीर्णो रसराजो रागमुपयाति ॥९॥
तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः ।
समकद्विगुणत्रिगुणान्पुटो वहेद्वंगशस्त्रादीन् ॥१०॥
रक्तस्नेहनिषेकैः शेषं कुर्याद्रसस्य कृष्टिरियं ।
चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभं ॥११॥
अथवा केवलं अमलं कमलं दरदेन वापितं कुरुते ।
त्रिगुणं हि चीर्णजीर्णं लाक्षारससन्निभं सूतं ॥१२॥
रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानां ।
एकेन वापितमृतं कमलं रञ्जयति रसराजं ॥१३॥
बाह्यो गन्धकरागो विलुलितरागे मनःशिलाताले ।
माक्षिकसत्वरसकौ द्वावेव हि रञ्जने शस्तौ ॥१४॥
क्रमवृत्तौ रविरसकौ संशुद्धौ मूकमूषिकाध्मातौ ।
त्रिगुणं चीर्णो जीर्णो हेमाभो जायते सूतः ॥१५॥
अथ कृष्णाभ्रकचूर्णं पुटितं रक्तं भवेत्तथा सकलं ।
त्रिगुणं चीर्णो जीर्णो हेमद्रुतिसन्निभः सूतः ॥१६॥
त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतं ।
पटुसहितं तत्पक्वं हण्डिकया यावदिन्द्रगोपनिभं ॥१७॥
तच्चूर्णं सूतवरे त्रिगुणं चीर्णं हि जीर्णं तु ।
द्रुतहेमनिभः सूतो रञ्जति लोहानि सर्वाणि ॥१८॥
(बीज्जारण् का महत्त्व्) पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः ।
द्रुतेरष्टगुणं बीजं तस्माद्बीजं तु जारयेत् ॥१९॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP