रसहृदयतंत्र - अध्याय १५

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


वक्ष्ये त्वभ्रकसत्वाद्विमलद्रुतिं अखिलगुणगणाधारां ।
सा हि निबध्नाति रसं संमिलिता मिलति च सुखेन ॥१॥
वज्रवल्ल्याः स्वरसेन गगनं सौवर्चलान्वितं पिष्टं ।
परिपक्वं निचुलपुटैर्निर्लेपं भवति रसरूपं ॥२॥
अजजलशतपरिप्लावितकपितिन्दुकचूर्णवापमात्रेण ।
द्रुतजातमभ्रकसत्वं मूषायां रसनिभं भवति ॥३॥
निजरसशतप्लावितकञ्चुकिकन्दोत्थचूर्णकृतपरिवापं ।
द्रुतमास्तेऽभ्रकसत्त्वं तद्वत्सर्वाणि लोहानि ॥४॥
गगनं चिकुरतैलघृष्टं गोमयलिप्तं च कुलिशमूषायां ।
सुध्मातमत्र सत्त्वं प्लवति जलाकारमचिरेण ॥५॥
गगनद्रुतिरिह सत्वे ज्ञेयो हि रसस्य सम्प्रदायोऽयं ।
प्रथमं निपात्य सत्वं देयो वापो द्रुते तस्मिन् ॥६॥
सुरगोपकदेहरजः सुरदालिफलैः समांशकैर्देयः ।
वापो द्रुते सुवर्णे द्रुतमास्ते तद्रसप्रख्यं ॥७॥
अथ निजरसपरिभावितसुरदालीचूर्णवापमात्रेण ।
द्रुतमेवास्ते कनकं लभते भूयो न कठिनत्वं ॥८॥
सुरदालीभस्म गलितं त्रिःसप्तकृत्वाथ गोजलं शुष्कं ।
वापेन सलिलसदृशं कुरुते मूषागतं तीक्ष्णं ॥९॥
कूर्मास्थिशिलाजतुकमेषीमृगगोऽस्थिवापिता काञ्ची ।
जलसदृशी भवति सदा वापो देयो द्रुतायां तु ॥१०॥
अभ्रकद्रुतिरविशेषा निर्लेपा योजिता समासात्तु ।
आरोटं रसराजं बध्नाति हि द्वन्द्वयोगेन ॥११॥
कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति रसेन मृदिताः स्त्रीकुसुमपलाशबीजरसैः ॥१२॥
इति बद्धो रसराजो गुञ्जामात्रोपयोजितो नित्यं ।
एकेनैव पलेन तु कल्पायुतजीवितं कुरुते ॥१३॥
अथ पूर्वोक्तग्रासक्रमाज्जरते रसो विधिवत् ।
एताः पूर्वद्रुतयो भवन्ति रसराजफलदाश्च ॥१४॥
समजीर्णः शतवेधी द्विगुणेन रसः सहस्रवेधी च ।
क्रमशो हि कोटिवेधी द्विगुणद्विगुणद्रुतेश्चरणात् ॥१५॥
षोडश वा द्वात्रिंशद्वा ग्रासा जीर्णाश्चतुःषष्टिः ।
विध्यति तदा रसेन्द्रो लोहं धूमावलोकनतः ॥१६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP