रसहृदयतंत्र - अध्याय १४
प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।
समादधि च यज्जीर्णं बीजं तेनैव चावर्तता कार्या ।
कर्तव्यं तत्करणं यस्मात्खलु जायते हेम ॥१॥
प्रद्राव्य शस्त्रपात्रे गन्धपादेन सूतकं दद्यात् ।
स्वरसेन चौषधीनां वटिकां निष्पिष्य कुर्वीत ॥२॥
संस्थाप्य लोहफलके छायाशुष्कां तु तां वटिकां ।
लघुलोहकटोरिकया स्थगयित्वा लेपयेत्सुदृढं ॥३॥
लवणार्द्रमृदा लिप्तां सुदृढं कुर्वीत धूम्ररोधाय ।
दत्त्वा सुदृढांगारान्भस्त्राद्वयवह्निनैव निर्धूमे ॥४॥
तावद्यावद्ध्माता रक्ताभा खोटिका भवति ।
अपनीय ततोऽङ्गारान्स्वभावशीतां कटोरिकां मत्वा ॥५॥
उत्खन्योत्खन्य ततः कटोरिकाया रसो ग्राह्यः ।
एषः मृतसूतराजो गोलकवद्भवति च स सुखाध्मातः ॥६॥
शिखिगलतां एकरसोऽतिध्मातः काचटंकणतः ।
त्रिगुणं वङ्गं दद्यात्क्रमेण नागं अल्पाल्पदानेन ॥७॥
पश्चाद्धेम्ना योज्यं रसबीजं सूतबन्धकरं ।
तालकसूतेनापि च कृत्वा वटिकां नियामकौषधिभिः ॥८॥
एवं निगृह्य धूमं सुधिया रसमारणं कार्यं ।
(मेर्चुर्यः: मारण) अथवा शिलया सूतो माक्षिकयोगेन वा सिद्धः ।
जायेत शुक्लवर्णो धूमरोधेन ताभ्यां वा ॥९॥
मृतशुल्वताप्यचूर्णं कान्तयुतं तेन रञ्जयेत्खोटं ।
निर्व्यूढं घनसत्वहेमयुतं तद्रसायने योज्यं ॥१०॥
बलिना त्रिगुणेन रसात्पर्पटिकयुतेन मर्दितं सूतं ।
नियामकदिव्यौषधिभिश्छायाशुष्का कृता वटिका ॥११॥
मूषाधृतपर्पटिकामध्ये संछाद्य निगूढसुदृढेन ।
ध्मातं गच्छति खोटं हेमयुतं सूतबन्धकरं ॥१२॥
बलियुक्ता पर्पटिका मृदिता स्नुह्यर्कभाविता गुटिका ।
मध्ये गर्ता कार्या सूतभृताच्छादिता तदनु ॥१३॥
बाह्ये दत्त्वा निगडं सुलिप्तमूषोदरे दृढं न्यस्तं ।
सूतः पुटितो म्रियते ध्मातः खोटं भवत्येव ॥१४॥
एवं तालशिलाभ्यां माक्षिकरसकैश्च दरदशिखिसहितैः ।
म्रियते पुटसंयोगाद्ध्मातं खोटं कृतं विमलं ॥१५॥
किट्टकपुरसंयोगाद्ध्मातैः किट्टस्तु किट्टतः सत्वं ।
निपतति सत्वं रससाकं जनयति तद्भस्म तस्यापि ॥१६॥
वङ्गरसगन्धतालं खटिकाया योगतः सुपर्पटिका ।
रञ्जयति सत्वतालं धूमेन विनापि सूतं ॥१७॥
एवं खोटं बीजं कृत्वा रञ्जनविधिना सुरञ्जनं कार्यं ।
त्रिगुणं रसस्य हेम संयोज्यं तस्य वरबीजं ॥१८॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP