अर्थशास्त्रम् अध्याय ०७ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
षाड्गुण्यस्य प्रकृति.मण्डलं योनिः ॥

१.०२
"संधि.विग्रह.आसन.यान.संश्रय.द्वैधी.भावाः षाड्गुण्यम्" इत्य् आचार्याः ॥

१.०३
"द्वैगुण्यम्" इति वात.व्याधिः ॥

१.०४
"संधि.विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ॥

१.०५
षाड्गुण्यम् एव_एतद् अवस्था.भेदाद् इति कौटिल्यः ॥

१.०६
तत्र पण.बन्धः संधिः ॥

१.०७
अपकारो विग्रहः ॥

१.०८
उपेक्षणम् आसनम् ॥

१.०९
अभ्युच्चयो यानम् ॥

१.१०
पर.अर्पणं संश्रयः ॥

१.११
संधि.विग्रह.उपादानं द्वैधी.भावः ॥

१.१२
इति षड्.गुणाः ॥

१.१३
परस्माद्द् हीयमानः संदधीत ॥

१.१४
अभ्युच्चीयमानो विगृह्णीयात् ॥

१.१५
"न मां परो न_अहं परम् उपहन्तुं शक्तः" इत्य् आसीत ॥

१.१६
गुण.अतिशय.युक्तो यायात् ॥

१.१७
शक्ति.हीनः संश्रयेत ॥

१.१८
सहाय.साध्ये कार्ये द्वैधीभावं गच्छेत् ॥

१.१९
इति गुण.अवस्थापनम् ॥

१.२०
तेषां यस्मिन् वा गुणे स्थितः पश्येत् "इह.स्थः शक्ष्यामि दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्माण्य् आत्मनः प्रवर्तयितुम्, परस्य च_एतानि कर्माण्य् उपहन्तुम्" इति तम् आतिष्ठेत् ॥

१.२१
सा वृद्धिः ॥

१.२२
"आशुतरा मे वृद्धिर् भूयस्तरा वृद्ध्य्.उदयतरा वा भविष्यति, विपरीता परस्य" इति ज्ञात्वा पर.वृद्धिम् उपेक्षेत ॥

१.२३
तुल्य.काल.फल.उदयायां वा वृद्धौ संधिम् उपेयात् ॥

१.२४
यस्मिन् वा गुणे स्थितः स्व.कर्मणाम् उपघातं पश्येन् न_इतरस्य तस्मिन् न तिष्ठेत् ॥

१.२५
एष क्षयः ॥

१.२६
"चिरतरेण_अल्पतरं वृद्ध्य्.उदयतरं वा क्षेष्ये, विपरीतं परः" इति ज्ञात्वा क्षयम् उपेक्षेत ॥

१.२७
तुल्य.काल.फल.उदये वा क्षये संधिम् उपेयात् ॥

१.२८
यस्मिन् वा गुणे स्थितः स्व.कर्म.वृद्धिं क्षयं वा न_अभिपश्येद् एतत्.स्थानम् ॥

१.२९
"ह्रस्वतरं वृद्ध्य्.उदयतरं वा स्थास्यामि, विपरीतं परः" इति ज्ञात्वा स्थानम् उपेक्षेत ॥

१.३०
"तुल्य.काल.फल.उदये वा स्थाने संधिम् उपेयाद्" इत्य् आचार्याः ॥

१.३१
न_एतद् विभाषितम् इति कौटिल्यः ॥

१.३२
यदि वा पश्येत् "सन्धौ स्थितो महा.फलैः स्व.कर्मभिः पर.कर्माण्य् उपहनिष्यामि, महा.फलानि वा स्व.कर्माण्य् उपभोक्ष्ये, पर.कर्माणि वा, संधि.विश्वासेन वा योग.उपनिषत्.प्रणिधिभिः पर.कर्माण्य् उपहनिष्यामि, सुखं वा स.अनुग्रह.परिहार.सौकर्यं फल.लाभ.भूयस्त्वेन स्व.कर्मणां पर.कर्म.योग.आवहं जनम् आस्रावयिष्यामि - ॥

१.३२
बलिना_अतिमात्रेण वा संहितः परः स्व.कर्म.उपघातं प्राप्स्यति, येन वा विगृहीतो मया.संधत्ते तेन_अस्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्.द्वेषिणो जन.पदं पीडयिष्यति - ॥

१.३२
पर.उपहतो वा_अस्य जन.पदो माम् आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्न.कर्म.आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - ॥

१.३२
परतः प्रवृत्त.कर्म.आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रु.प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि - ॥

१.३२
भिन्नम् अवाप्स्यामि, दण्ड.अनुग्रहेण वा शत्रुम् उपगृह्य मण्डल.लिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन_एव घातयिष्यामि" इति संधिना वृद्धिम् आतिष्ठेत् ॥

१.३३
यदि वा पश्येत् "आयुधीय.प्रायः श्रेणी.प्रायो वा मे जन.पदः शैल.वन.नदी.दुर्ग.एक.द्वार.आरक्षो वा शक्ष्यति पर.अभियोगं प्रतिहन्तुम्, विषय.अन्ते दुर्गम् अविषह्यम् अपाश्रितो वा शक्ष्यामि पर.कर्माण्य् उपहन्तुं - ॥

१.३३
व्यसन.पीड.उपहत.उत्साहो वा परः सम्प्राप्त.कर्म.उपघात.कालः, विगृहीतस्य_अन्यतो वा शक्ष्यामि जन.पदम् अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिम् आतिष्ठेत् ॥

१.३४
यदि वा मन्येत "न मे शक्तः परः कर्माण्य् उपहन्तुं न_अहं तस्य कर्म.उपघाती वा, व्यसनम् अस्य, श्व.वराहयोर् इव कलहे वा, स्व.कर्म.अनुष्ठान.परो वा वर्धिष्ये" इत्य् आसनेन वृद्धिम् आतिष्ठेत् ॥

१.३५
यदि वा मन्येत "यान.साध्यः कर्म.उपघातः शत्रोः, प्रतिविहित.स्व.कर्म.आरक्षश् च_अस्मि" इति यानेन वृद्धिम् आतिष्ठेत् ॥

१.३६
यदि वा मन्येत "न_अस्मि शक्तः पर.कर्माण्य् उपहन्तुम्, स्व.कर्म.उपघातं वा त्रातुम्" इति, बलवन्तम् आश्रितः स्व.कर्म.अनुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं च_आकाङ्क्षेत ॥

१.३७
यदि वा मन्येत "संधिना_एकतः स्व.कर्माणि प्रवर्तयिष्यामि, विग्रहेण_एकतः पर.कर्माण्य् उपहनिष्यामि" इति द्वैधी.भावेन वृद्धिम् आतिष्ठेत् ॥

१.३८
एवं षड्भिर् गुणैर् एतैः स्थितः प्रकृति.मण्डले ।

१.३८
पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP